पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[[अ०पटलः] गोपीनाथभट्टकृतज्योत्याध्याख्यासमेतम् ।

त आहिताग्नेरुभयोरक्रतुसंयुक्ता भवन्ति ॥ २२ ॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने सप्तमः पटलः।

तेषां चतुतॄिणां मध्ये ये विहारसंयुक्तास्त आहिताग्नेर्यथा दर्शपूर्णमासावालभमान. श्चतुतारमित्यादिषु । ये त्वक्रतुसंयुक्ता यः कामयेत प्रजायेयेति यं ब्राह्मणं विद्या विद्वास यशो नईदित्यादिषु दशहोत्रादयस्त उभयोराहिता रनाहिताग्नेश्च भवन्ति । सत्राऽऽहिताग्नेराहवनीय औपासने वा कर्मव्यवस्थया होमः । अनाहिताग्नेरौपासन एव सर्वाणि । आपस्तम्बेनान्योऽपि विशेष उक्तः- सप्तहोत्रा यज्ञविभ्रष्टं याजयेच. 'तुर्गृहीतेनाऽऽन्येना वा पूर्वेण ग्रहेणार्धमुत्तरेगेति । तत्र यज्ञविभ्रष्टं विध्यपराधप्रश्ने वक्ष्यति-उपक्रम्याशक्नुवन्यज्ञविभ्रष्ट इति । तत्रेष्टिपशुविभ्रष्टस्येष्टिरेव प्रायश्चित्तं यो यज्ञविभ्रष्टः स्यादिति । सोमविभ्रष्टस्य तु सोम एव । वक्ष्यति च सप्तदशप्रश्ने सप्तद. शेनाग्निएता यज्ञविभ्रष्ट इति । अयं तु वर्षिहोमत्वसामान्यादग्निहोत्रविभ्रष्टस्य भवति । भक्चितुरहविर्भेषात् । ततः परं तु तन्तुमत्युक्ता । पिण्डपितृयज्ञभ्रेषपार्वणपाक- यज्ञभ्रेषे चायमेव विधिद्रष्टव्यः । इत्योकोपाहश्रीपदमिष्टोपयाजिसाहस्राप्रियुक्तवाजपेयथानिसर्वतोमुखया- जिद्विसाहस्राधियुक्तपोष्टरी कयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- बाम्बुधिगतनिमूढार्थरत्नालाभकृतविद्वजनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमम- नस्य सप्तमः पटला ॥७॥

10.8 अथ दशमप्रश्नेऽष्टमः पटलः ।

वासिष्ठो ब्रह्मा ज्योतिष्टोमे ।

वासिष्ठी वसिष्ठगोत्रोत्पन्नो ज्योतिष्टोमे ब्रह्मा भवति । एतेनाऽऽधानेष्टिपशु- बन्धेषु वासिष्ठत्वस्यानियमः । देवभूतपितृभूतस्विस्वीकारेऽपि आधानादाववासिष्ठ- ब्रह्मस्वीकारे ज्योतिष्टोमाद्यर्थमन्यो वासिष्ठः स्वीकार्य इति । य आधानादौ स्वीकृतः स स एव ज्योतिष्टोमादिष्विति नियमो न । श्रुतिरपि सोमप्रकरणे-तस्माद्वासिष्ठो ब्रह्मा कार्य इति । तत्रैकार्षया वासिष्ठा अन्यत्रोपमन्युपराशरकुण्डिनेभ्य इतिप्रवरसूत्रोपात्तो मुख्यो वसिष्ठस्तदपत्यभूता उपमन्युपराशरकुण्डिनाश्चात्र गृह्यन्ते । तदपत्यत्वात्तत्संज्ञया १क छ, त्तत्सत्तया।