पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ सत्याषादविरचितं श्रौतसूत्रं- [ ९नवमप्र-

उन्नम्भय पृथिवीमिति वृष्टिकामस्य जुहुयात् ।

अनेन मन्त्रेण यास्ते विश्वा इत्यस्य बाधः । तत्स्थानापन्नत्वात्प्रधानीभूतहोमक्रिया. विनियोमबदेतस्यापि विनियोगो लिङ्गाभावेऽपि । अत्र यजमानेन वृष्टिकामेन संकल्पः कार्यों वृष्टिकाम उन्नम्भय पृथिवीमित्यनेन मन्त्रेणाऽऽदित्यग्रहं होण्यामीति ।

न हुत्वाऽन्वीक्षेत ।

हुतमपि सादनपर्यन्तं न वीक्षेत कुनो होमकाले ।

नानुवषट्करोति न भक्षयति सूदवत्पात्रꣳ सादयति ।

सूदः शेषः । अवधानाथों निषेधो नानुवषट्करोतीति । होमाभिषवनिमित्तको भक्षः प्राप्तस्तद्वाधनार्थ न भक्षयतीति । भक्षणाभावेऽपि शेषस्थापनं न स्यात्तदर्थ सूदवविति। उत्तरत्र विनियोगादेव शेषस्थापने सिद्ध इदं वचनमवधानार्थम् ।

वसतीवरीभ्यो निषिच्य निग्राभ्याः करोति ।

होतृचमसे वसतीवरीभ्यो निषिच्य निग्राभ्याः स्थति निग्राभ्याः करोतीत्यनेन विधिनेत्यर्थः।

य उपाꣳशुपात्रेऽꣳशुस्तमृजीषेऽपिसृज्यादाभ्याꣳशुमुपाꣳशुपावनौ चर्जीषं तूष्णीमभिषुण्वन्ति ।

एतापदार्थानोषेऽपिसृज्य प्रक्षिप्यतैः सहर्ष तूष्णीमेवामिषुण्वन्ति । इहाइहेत्य. त्रापि भवति । तस्य माध्यदिनेन सवनेन कल्पो व्याख्यात इति सूत्रात् । नच तूष्णीमभिषुण्वन्तीति वचनेन विरोधः शङ्कयः । इहाइहेत्यस्याभिषवकरणत्वाभावात् । बृहबृहदिति तु न भवति । एतस्याभिषवकरणत्वेन तूप्णीमितिवचनेनैतस्य बाधात् ।

न ग्रावस्तुते सोमोष्णीषं प्रयच्छति ।

माध्यंदिनसवनातिदेशतः प्राप्तस्य निषेधः ।

न प्रतिप्रस्थाता ग्राव्णोऽनुमोदते ।

अस्यापि माध्यदिनसवनातिदेशतः प्राप्तस्य निषेधः ।

अत्र सवनीयानां निर्वपणमेके समामनन्ति ।

अत्रास्मिन्काले न माध्यंदिने सवने माहेन्द्रग्रहग्रहणोत्तरं नोत्तरत्र विहिते व काळ इत्यर्थः ।

धाराग्रहणकाल आग्रयणं चतसृभ्यो धाराभ्यो गृह्णात्यादित्यपात्राच्चतुर्थीं धारां करोति ।

उक्तास्तिस्रो धारा माध्यंदिने सक्ने । सूदवदादित्यपात्राच्चतुर्थी धारेत्यत्र विशेषः । मादित्यपात्रादादित्यपात्रस्थेन सोमेन । $ 1 ६