पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

f तृ पटलः] गोपीनाथमट्टकृतज्योतसाव्याख्यासमेतम् ।

यद्युद्द्रुतस्य क्षिप्रꣳ स्तोकः प्रस्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुकः ।

पदि उद्भुतस्योच्छलितस्य सोमरसस्य क्षिप्रं शीघं स्तोको बिन्दुः प्रस्कन्देहिः पतेत्तदा वर्षको वर्षणशीलः पर्जन्यो भवेद्यदि चिरं विलम्बेन सदाऽवर्षणशील इत्येष विज्ञानशब्दार्थः । यदि चिरं प्रस्कन्देदिन्यन्वयः ।

न सादयति ।

अहमित्येव शेषः । सर्वग्रहाणां परिमार्जनं यथायोनि सादनं चेति परिभाषातः प्राप्त सादनमनेन निषिध्यते । परिमार्जनं तु भवत्येव तस्य निषेधकवचनाभावात् । मावाणं तु सादयत्येव कार्यानुरोधात्तथोपांशुसवनं ग्रावस्वपिसृजतीति बौधायनोक्तेश्च ।

आसमुद्रादान्तरिक्षादिति दर्भैराच्यावयति ।

परिभोजनीयदर्भरादित्यमाच्यावयति विलोडयति ।

अहं परस्तादहमवस्तादिति दर्भैर्हस्तेन वाऽपिदधाति ।।

पुनर्दर्भग्रहणादेवान्ये दर्मा न तु पूर्वगृहीता एव । हस्तेन दक्षिणेनापिदधाति भाच्छादयत्यादित्यग्रहम् ।

सूर्यो मा देवो देवेभ्यः पात्वित्युत्तिष्ठति ।

स्पष्टम्।

कविर्यज्ञस्य वितनोति पन्यामिति हरति ।

उत्तरवदि प्रति नयतीत्यर्थः ।

आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः पियव्रतेभ्यो महस्व सरस्वपतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूह्यादित्येभ्यः प्रियेभ्यः पियधामभ्य: प्रियव्रतेभ्यो महस्व सरस्वपतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्यति संप्रेष्यति ॥ ५ ॥

सष्टम्।

यास्ते विश्वाः समिधः सन्त्यग्न इति दर्भानाहवनीये प्रास्यान्यत्रेक्षमाणो जुहोति ।

अयं मन्त्रः प्रधानीभूतायां होमक्रियायामेवान्वेति न तु दर्भप्रासने । यत्तु मन्त्रेण दर्भासनं तूष्णी होम इति केचिद्वदन्ति तत्तुच्छम् । आहुति घृतस्येतिलिङ्गविरोधा- स्प्रधानीभूतहोमक्रियायामेवान्वयस्य युक्तत्वाच ।