पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [९ नवमप्रभे-

यस्य भ्रातृव्यः सोमेन यजेत यावदादित्यं गृह्णीयात्तावद्बहिर्वेदि तिष्ठेत् ।

यदा बहूनां मध्ये भ्रातृव्योऽपि अन्तर्वेदि प्रविष्ट एवं यजमानो भवेत् । भ्रातृव्य. कर्तृ के सोम आदित्ये गृह्यमाणे तस्य यज्ञे तावत्पर्यन्तं बहिदि तिष्ठेदित्यर्थः । अमु. मर्थ स्पष्टमाहाऽऽपस्तम्बः-भ्रातृव्ययज्ञे तु गृह्यमाण आदित्ये बहिदि तिष्ठेविति । भातृव्ययज्ञे स्वयंगतस्त्वादित्यग्रहणकाले तत्र बहिर्वेयेव तिष्ठेदित्यापस्तम्बसूत्रार्थः ।

कदाचन स्तरीरसीति य आदित्यस्थाल्याꣳ सोमस्तस्यैकदेशमादित्यपात्रेण गृह्णाति ।

सोमोऽत्राऽऽदित्यस्थालीगतो द्विदेवत्यग्रहसंपातात्मकः ।

कदाचन प्रयुच्छसीति शृतातङ्क्यं दधि ।

यदादित्यग्रहार्थ पूर्व कृतं दधि तनाति ।

यज्ञो देवानां प्रत्येतीति य आदित्यस्थाल्याꣳ सोमस्तꣳ सर्वं गृह्णाति ।

द्विदेवत्यसंपातात्मकसोमावशेषः सोमस्त सर्व गृह्णाति । उपरिष्टादुपयामा अमेति. परिभाषात एतेषु मन्त्रेण्वन्त उपयामगृहीतोऽसीति भाति ।

विवस्व आदित्येत्युपाꣳशुसवनेनाऽऽदित्यं मेलयति ।

आदित्यग्रहार्थ तत्पात्रे गृहीतं सोमं दधि च मेलयत्यालोड पतीत्यर्थः ।

या दिव्या वृष्टिस्तया त्वा श्रीणामीत्यादित्यं पयसा दध्ना वोपरिष्टाद्वृष्टिकामस्य श्रीणीयात् ।

उपरिष्टादन्तिमसोमग्रहणानन्तरम् । अत्र यजमानेन वृष्टि कामेन पयसा दना वा. नितमसोमग्रहणानन्तरं श्रयणं करिष्य इति संकल्पः कार्यः । यानि तु कामयतिः श्रादयतीति दर्शपूर्णमासयानमानसूत्रात् ।

न मध्यतो दधि गृह्णातीत्येकेषाम् ।

एकेषामाचार्याणां मते कदाचन प्रयुच्छतीति शृतातङयदधिग्रहणस्य लोपः ।

तस्मिन्नुपाꣳशुसवनं ग्रावाणमवदधाति ।

तस्मिन्गृहीत आदित्यग्रह उपांशुप्तवनाख्यो यो प्रावा तमुपरि दधाति । अत्र पावपई न पठन्त्युदोच्यास्तद्युक्तिसहमेव ।

तमुद्यम्य विज्ञानमुपैति ।

तमुपांशुसवनमुन गृहीत्वा तस्मादादित्यग्रहाद्विज्ञान भाविवृष्टेश्चिई जानीयात । तदेवाऽऽह-