पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१५ श्तृ० पटलः]] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

प्रशास्तः प्रसुवेति संप्रेष्यति सर्पतेत्याह प्रशास्ता संतिष्ठते माध्यंदिनꣳ सवनम्॥४॥

इति हिरण्यकेशिसूत्रे नवमप्रश्ने द्वितीयः पटलः।

गतम् । इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखपा. जिद्विसाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसू. त्रांम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ नवम. प्रश्नस्य द्वितीयः पटलः ॥ २ ॥

9.3 अथ नवमप्रश्ने तृतीयः पटलः ।

आदित्यारम्भणं तृतीयसवनं तायते ।

प्रथमत आदित्यग्रहविधानादेव सिद्ध इदं वचनं भ्रान्त्याऽऽदित्यग्रहे विस्मृत्य वसतीवरीभ्यो निषिच्येत्यायेव करोति तदाऽऽदित्यग्रहप्रयु तं विधिं सूदवत्पात्र साद- यतीत्यन्तं कृत्वा पुनर्वसतीवरीभ्यो निषिच्येत्यादि कृतमपि करोति न तु विपर्यासप्र- युक्तप्रायश्चित्तेन चारितार्थ्यमितिज्ञापनार्थम् ।

तस्य माध्यंदिनेन सवनेन कल्पो व्याख्यातः।

स्पष्टम् ।

अपिधाय हविर्धानस्य द्वारे यदा बहवोऽन्तर्वेदि ।

अपिधायाऽऽच्छाद्य । यदा बहवोऽन्तर्वेदि उपविष्टाः स्युस्तदा द्वारापिधानं नान्यदेति। बहन इत्यनेन ये कर्मानभिज्ञा बहुननास्तेऽत्र बहुवचनेन गृह्यन्ते । तथा चाऽऽप- स्तम्बः-हविर्धानस्योभे द्वारौ संवृत्य बहुननायां वेद्यामिति ।

यदा वाऽस्य भ्रातृव्यः।

यदाऽस्य यजमानस्य भ्रातृव्यः शत्रुरन्तवेद्युपविष्टो भवति तदाऽपि द्वारापिधानम् ।

अन्तर्वेदि यजमानः पत्नी च भवतोऽथाऽऽदित्यं गृह्णाति ।

अन्तर्वेदि यजमानस्य सत्त्वे सिद्धेऽप्यत्र वचनं वेदिमध्यभागे हविर्धानात्मक उप- वेशनविधानार्थ तच्चोभयोः । समासाभावात्साहित्यं न विवक्षितम् । अथशब्दोऽन्तवेद्यु- भयकर्तृकोपवेशनानन्तयर्थिः । - -