पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ९१४ सत्यापाढ़विरचितं श्रौतसूत्रं-. [९नवमप्र-

उक्थशा यज सोमस्यति संप्रेष्यत्यग्ने तेजस्विन्तेजस्वीत्येतैर्यथारूपमतिग्राह्याञ्जुहोति ।

अग्ने तेजस्विन्नित्ययं मन्त्रः प्रतिप्रस्थातुराग्नेयातिग्राह्यहोमे । इन्दौमास्विनि- त्ययं मन्त्रो नेष्टुरेन्दातिग्राह्यहोमे । सूर्य भ्रानस्विन्नित्ययं मन्त्र उन्नेतुः सौर्योतिग्राह्य- होम इत्ययं यथारूपशब्दार्थः । एतद्धोमावसरस्त्वापस्तम्बेन स्पष्टमुक्तः-हुते माहेन्दे पश्चापिहोमधर्मेण यन्त इति । न त्वस्य वषट्कोरी । कुतः । आपस्तम्बसूत्रेऽनु. झूयन्त इति वधनात् । उक्थशा यज सोमस्येत्येकवचनाद्देवताभेदाच्च । ततो माहेन्द्र स्यानुवषट्कारः।

मयि मेधां मयि प्रजामित्येतैर्यथारूपमतिग्राह्यान्भक्षयन्ति ।

मयि मेधां मयि प्रजा मय्यग्निस्तेजो दधातु इत्याग्नेयं प्रतिप्रस्थाता भक्षयति माथि मेधां मयि प्रनां मयीन्द्र इन्द्रियं दधातु इत्येन्द्र नेष्टा भक्षयति । मयि मेधां मयि प्रजा मयि सूर्यो भ्रानो दधास्विति सौर्यमुन्नेता भक्षयतीति यथारूपशब्दार्थः । मन्दाभिभूतिर्वाग्दे. थीत्युभयोधिः । अध्वर्योोमाभिषवनिमित्तकभक्षकर्तृत्वादुपह्वानं त्रिमिः कार्यम् ।

सर्वभक्षा नाऽऽप्यायनसादने भवतः।

सष्टम् ।

त्रिभिरुक्थ्यविग्रहैः प्रचरतो यथा पुरस्तात् ।

यथा : पुरस्तादित्यनेनोक्थ्यस्थाल्या उक्थ्यपात्रेण तृतीयांशस्य ग्रहणमायतने सादनं स्थालीप्रत्यमिमर्शनं त्रिषु ग्रहेषु यथाक्रम तत्तच्छस्त्रिप्रमुखैकादशे चमसोन्नयन पुरस्तादाग्नीधचमतादच्छावाकचमसस्योन्नयनं स्तुतशस्त्रोपाकरणं शस्त्रप्रतिगरादिमक्षा- न्तानि कर्माणि च प्राप्यन्ते । तत्र विशेषमाह -

इन्द्राय त्वेति सर्वत्र ग्रहणसादनौ संनमतः ।

मित्रावरुणौ, इन्द्र इन्द्राग्नी इत्येता देवता बाधित्वेन्द्रदेवता विधीयते । इन्द्रश. ब्दवानेव मन्त्रः सर्वत्रेतरयोरपि भवति । तत्र ग्रहणमन्त्र उपयामगृहीतोऽसीति । एष ते योनिरिन्दाय वेति सादनः । गृह्यतेऽनेनेति ग्रहणः । साद्यतेऽनेनेति सादनः । मन्त्रयाविशेषणे एते।

विश्वे देवा मरुत इन्द्रो अस्मानिति सꣳस्थिते जुहोति ।

व्याख्यातं प्रातःसबने । . १ग, च, 'री कुरुतः।