पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. रद्वि० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ९१३

उक्थं वाचीति शस्त्रं प्रतिगीर्य सर्वत्र माध्यंदिने सवने जपति ।

स्पष्टम् ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमस्येति संप्रेष्यति । व्याख्यातमनुप्रकम्पनं ग्रहनाराशꣳसानां भक्ष आप्यायनसादने च नाराशꣳसानाम् ।

ऐन्द्राग्नवच्छस्त्रप्रतिग्रहनाराशश्याश्चेत्येव लाघवात्सूत्रे कर्तव्ये गुरुसूत्रकरण(?) शस्त्रप्रतिगरोत्तरमेतत्सूत्रपाठ आवश्यकः । एतदकरणे यजुर्भेषप्रायश्चित्तं भुवः स्वाहेति दक्षिणाग्नौ । अदृष्टमेवैतत्फलं दृष्टासंभवात् ।

महाꣳ इन्द्रो य ओजसा महाꣳ इन्द्रो नृवदित्यन्यतरेण शुक्रपात्रेण माहेन्द्रं कलशात्स्तुतशस्त्रवन्तं गृह्णाति ।

वाकारेणैव विकल्पे सिद्धेऽन्यतरग्रहणं विनिवेशविकल्पार्थम् । रथंतरे पूर्वया ग्रहणं बृहत्युत्तरया । एतदुक्तं बौधायनेन- बृहत्पृष्ठे महा५ इन्द्रो नृवदित्यतयेति । उभय- सानि तु ग्रहाग्रवत् । वैराजादिध्वनियमः । विनिवेशविकल्पे द्विवर्हा इति बृहतो लिङ्गमिदमप्यस्ति । एतेन यत्तुल्यविकल्प इति यैरुक्तं तन्निरस्तम् । तृतीयसवनेऽत्र सवनीयानां निर्वपणमेके समामनन्तीति वक्ष्यमाणसूत्रेऽत्रग्रहणेन ज्ञापितो माहेन्द्रग्रह- ग्रहणोत्तरमपि सवनीयनिर्वपणकालः । तेनात्र पक्षे सवनीयनिर्वपणम् । बौधायनेनाप्यत्र तातीयसवनीयानां निर्वाप उक्तः । तच्च दर्शितमेव प्राक् । भारद्वाजादयश्वाऽऽहु:- अत्र तार्तीयसवनिकमभिषवमभिषुणुयान्स(स)वनीयान्सौम्यमिति निर्वपेदाशिरमवनये. दित्येकं तृतीयसवनमित्यपरमिति । स्तुतशस्त्रवन्तमिति दर्शितप्रयोजनं प्रातःसवने ।

तꣳ सादयित्वा स्तोत्रमुपाकरोति तद्व्याख्यातमपवृत्ते स्तोत्रे शस्त्रमुपाकरोति तद्व्याख्यातम् ।

व्याख्यातमेतत्प्रातःसवने ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यवः ।

स्तुते वैश्वदेववच्छत्रग्रहनाराशमा इति लाघवाद्वक्तव्ये गुरुसूत्रकरणप्रयोजन सूत्र- पाठावश्यकत्वार्थम् । सूत्रं कृतव्याख्यानम् । शस्त्रं प्रतिगीर्येत्यपि दर्शितप्रयोजनम् ।

अतिग्राह्यानितरेऽध्वर्यव आग्नेयं प्रतिप्रस्थातैन्द्रं नेष्टा सौर्यमुन्नेता।

अध्वर्युशब्देन प्रतिप्रस्थातृनेष्टुन्नेतारः । अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेतत्यध्वर्यव इति सूत्रात् । एतेषां ग्रहाणामादानावसरस्तु आपस्तम्बेन प्रदर्शितः-माहेन्द्रं त्वति- ग्राह्या अनु गृह्यन्त इति । आग्नेयमतिग्राह्यं प्रतिप्रस्थाता, ऐन्द्रमतिमा नेष्टा सौर्य- मतिग्राह्य मुन्नेतेत्यर्थः ।