पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ९१२ सत्याषाढविरचितं श्रौतसूत्र- [नवमप्रो-

यथागृहीतं मरुत्वतीयावादायेन्द्राय मरुत्वतेऽनुब्रूहीन्द्राय मरुत्वते प्रेष्येति संप्रेष्यति ।

गृहीतौ ग्रहावनतिक्रम्येति यथागृहीतम् । मरुत्वतीयौ ग्रहावध्वर्युप्रतिप्रस्थातारा- वादायेत्यर्थः । यजुर्वेदेनाध्वर्युरितिपरिभाषासूत्रादध्वयुरेव ।

हुत्वा व्यवनयेते।

वषट्कारानुवषट्कारयोर्तुत्वा व्यवनयेते । अध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवन- यति तस्यैकदेशमध्वर्युः प्रतिप्रस्थातुः पात्र इति संपातावनयनं कुरुत इत्यर्थः । व्यवनयेते इत्यत्र विशव्दः प्रातःसवनिकसंपातावनयनतोऽत्र वैलक्षण्यद्योतनार्थः । तच वैलक्षण्यमुभयोरप्यैकरूप्येण न तु संपाताकनयनमध्वयोरेकदेशावनयनं प्रतिप्रस्थातुरि. स्येवरूपोऽत्र भेद इत्येवंरूपं वैलक्षण्यम् ।

यथर्तुग्रहेषु प्रतिप्रस्थानेन भक्षयन्ति ।

यथर्तुग्रहेषु प्रतिप्रस्थातृपात्रेण प्रथममुखेन भक्षणं तथाऽत्रापीत्यर्थः ।

द्विर्होता सकृत्सकृदितरौ ।

होतुर्द्विवारभक्षणं वषट्कारानुवषट्कारनिमित्तमितरयोरध्वर्युप्रतिप्रस्थात्रोहोमामिषव. निमित्तं सकृत्सकृत् । तत्राध्वयोर्मुखतः प्रवृत्तत्वात्तस्यैव प्रथमो भक्षोऽनन्तरं प्रति- प्रस्थातुः।

मार्जालीये पात्रं प्रक्षाल्य होतुः सकाशे निदधाति ।

सकाशे समीपे।

जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा । इन्द्र मरुत्व इह पाहीत्यन्यतरेण स्वेन पात्रेणाभक्षितेन तृतीयं मरुत्वतीयं कलशाच्छस्त्रवन्तं गृह्णाति ।

वाशब्देनैव विकल्पे सिद्धेऽन्यतरवचनं व्यवस्थार्थ विकृतिषु जनिष्ठा इति मन्त्रः प्रकृताविन्द्र मरुत्व इति । स्वेन पात्रेणामक्षितेनेति प्रातःसवने दर्शितप्रयोजनम् । द्वौ मरुत्वतीयौ गृहीतौ । अयं तृतीयो मरुत्वतीयो ग्रहग्रहणकालेऽयं शस्त्रवान्ग्रह इतिज्ञानावश्यकत्वार्थम् । एतज्ज्ञानाभावे यजुर्भेषप्रायश्चित्तं दक्षिणानौ ।

ऋतुपात्रमारभ्य प्रतिगृणाति ।

आरभ्याऽऽलभ्य । अत्राऽऽलम्भशब्दार्थो हस्ते ग्रहणमेव । तिष्ठतोऽध्वर्योर्मुख्याल- भशब्दार्थस्य यावत्प्रतिमरं कर्तुमसंभवात् । ऋतुपात्रं दक्षिणहस्ते गृहीत्वा शखं प्रतिगृणातीत्यर्थः । १..ग. रूप।