पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २द्वि०पठलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

प्रच्छादनार्थस्य वाससो दशायाꣳ हिरण्यं बद्ध्वाssज्येऽवधाय स्रुग्दण्डे वाससोऽन्तमुपनियम्योदु त्यं चित्रमिति द्वाभ्याꣳ शालामुखीये जुहोति शेषमाज्यस्य करोति ।

गतार्थमेतत् ।

नीयमानासु पूर्वः प्रतिपद्याग्ने नयेति नयवत्यर्चाऽऽग्नीध्रे जुहोति ।।

परिकर्मिभिरामीधीयमण्डपं प्रति नीयमानासु सतीषु, पूर्वः प्रथमं प्रतिपद्य गत्वा, भग्ने नयेत्युङनयवती । नयपदघटितत्वात् । यथा वैसर्जनानीत्येतावनैव प्रच्छादना- थस्य वाससो दशाया हिरण्यं बद्ध्वाऽऽन्ये ऽक्वाय नुग्दण्डे वास सोऽन्तमुपनियम्येत्येत. दन्तेषु पदार्थेषुः सिद्धेषु । अत्र पुनर्वचनमेले पदार्थाः पूर्वाहुत्योरेव न नयवत्यां दाक्षि- णहोम एव न वैसननहोम इतिविशेषोधनार्थम् । तेन वैसर्जनहोंमें नयवत्यामपि भवति । अत एवाऽऽपस्तम्बेन तथैव समन्वारब्धेषु वाऽग्ने नयेत्याग्नीधीये जुहोतीति पाक्षिकत्वमन्वारम्भस्योक्तम् ।

शेषमाज्यस्य करोति।।

स्पष्टम्-.

दिवं गच्छ सुवः पतेति हिरण्यꣳ हुत्वोद्गृह्णाति।

हुत्त्वोद्गह्नाति हिरण्यमित्यन्वयः । खुक्त ऊर्व हिरण्यं गृह्णातीत्यर्थः ।

वनेषु व्यन्तरिक्षं ततानेति द्वितीयां यद्यनो रथोधीवासो वा दीयते ।

यदि यजमानेनानः शक दीयते रथो वा दीयतेऽधीवासश्चर्मपटो या दीयते तदेय द्वितीयाहुतिः ।

प्रजापते न त्वदेतानीति तृतीयां यद्यश्वः पुरुषो हस्ती वा दीयते ।

यदि यजमानेनाश्वः पुरुषो दासो हस्ती वा दीयते तदेयं तृतीयाहुतिः ।

नीतासु दक्षिणासु यज्ञपतिमृषय एनसाऽऽहुरिति ॥ ३ ॥ पञ्चभिराग्नीध्रीये वैश्वकर्मणानि जुहोति ।

नातासु दक्षिणामु तेन तेनविना नीतामु दक्षिणामु सतीषु यज्ञपतिमूषय एनसाऽऽ- हुरिति पञ्चमिसनराधीधीये वैश्वकर्मणानि जुहोति । पञ्चम्यामाहुत। वैश्वकर्मणत्व साष्टिन्यायेन । यज्ञपति० घोरा ऋषयः ० अनन्यान्सोमपान् . ये भक्षयन्तः नमः पितृभ्य इति पश्चेति भरद्वानः स्पष्टमाह । एतदाहुत्यात्मकानि कर्माणि वैश्वकर्मणानि विश्वकर्मणः इमानि वैश्वकर्मणानि । एतान्यानीधीये जुहोति । आनीधीयग्रहणमाह- वनीयव्यावृत्त्यर्थम् । यथा पाठमवसानं त्यज्यतेऽत्र । यत्र विश्वकर्मपदं यावति माग. आयाति तदनुरोधेनावसानानि करप्यन्ते भरद्वाजेन स्पष्टतयोक्तत्वात् । . . १ ग. सूत्रा