पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[७१० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । [ ११०३ चतु)तार उच्यन्ते तच्चतु)तृणां चतुर्होतृत्वमित्यादिषु बह्रोषु श्रुतिषु सर्वेषां चतुझे. तृपदप्रवृत्तिः प्रदर्शिता । कथंभूतांश्चतुर्थीतून, वाचस्पते विधे नामन्, सोमः : सोमस्य पुरोगाः, वाचस्पते वाचो वीर्येण, वाचस्पतेऽच्छिद्रया वाचा, वाचस्पते हृद्विधे नामन् , इत्येवमादयो ग्रहास्तत्महितान् । व्याख्याने स्वाहाकाराप्राप्तौ सस्वाहाकारानिति । अग्मियजुभिरित्यनुवाकोपात्ता मन्त्राः समारयषि तत्सहितान् । सेनेन्द्रस्येत्यनुवाको- पात्ताः पत्न्यस्तत्सहितान्देवस्य स्खेत्यनुवाकोपात्ता मन्त्राः प्रतिग्रहणसंज्ञका मन्त्रास्तरस. हितान् । प्रतिग्रहणमन्त्राः सानुषङ्गा द्रष्टव्याः । अपि वा चतुर्होतूनेव नैते ग्रहस्ताहा. कारसंभारयजुःपत्नीप्रतिग्रहणमत्रा इत्यर्थः । यो ब्राह्मणो दक्षिणत आस्ते वर तस्मै दद्यात् । चतुर्वर्षी गौवरः । यदेवैनं तत्र यश ऋच्छति यदीप्सितं यश अच्छती- च्छति तयशो वरुणो ददातीत्यर्थः । विज्ञायते श्रुतिरित शेषः ।

यद्येनमार्त्विज्याद्वृतꣳ सन्तं निर्हरेरन्नाग्नीध्रे जुहुयाद्दशहोतारं चतुर्ग्रहीतेनाऽऽज्येन नवगृहीतेनेत्येकेषां पुरस्तात्प्रत्यङ्तिष्ठन्प्रतिलोमं विग्राहं प्राणानेवास्योपदासयति यद्येनं पुनरुपशिक्षेयुराग्नीध्र्र एव जुहुयाद्दशहोतारं चतुर्ग्रहीतेनाऽऽज्येन नवगृहीतेनेत्येकेषां पश्चात्प्राङासीनोऽनुलोममविग्राहं प्राणानेवास्मै कल्पयति ।

यद्येनं पुरुषमाविज्ये वृतं सन्तमसति दोषे ततो भ्रंशयेयुर्यजमानांकरास्तदाऽसौ तं जिघासुमाग्नीधे दशहोतारमेव जुहुयात् । उत्तमादारभ्य प्रतिपदं यजुषामनुद्रवर्ण प्रतिलोमता, यजूषि यजुष्यवसायान्द्रवर्ण विग्राहः । उपदासः क्षपणं, पुनराविज्ये स्थापनमुपशिक्षणम् । यथाधीनो दशहोताऽनुलोममवियाहं च भवति ।

प्रायश्चित्ती वाग्घोतेत्यृतुमुख ऋतुमुखे षड्ढोतारं जुहुयात् ।

प्रायश्चित्तशब्देन शुद्धिरत्रोपलक्ष्यते । शुद्धीच्छावान्पुरुषो वाग्घोतेति षड्ढोतास्मृतु. मुख ऋत्वादौ । वीप्सया यावत्संवत्सर सामर्थ्यात् ।

यः कामयेत बहोर्भूयान्स्यामिति स दशहोतारं प्रयुञ्जीत ।

बहोभूयान्प्रजापश्वादिबहोर्बहतरः प्रयुञ्जीत जुहुयात् । प्रयोगोऽत्र होम एव चतू- हीतेनाऽऽज्येन ।

यः कामयेत वीरो म आजायेतेति स चतुर्होतारम् ।

वीरः सत्पुत्रः।

यः कामयेत पशुमान्स्यामिति स पञ्चहोतारम् ।

पशवो गवाश्चादयः। ।