पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०२ सत्याषाढविरचितं श्रौतसूत्रं- [१० दशमप्रश्ने-

यो यज्ञस्यानुसꣳस्थां पापीयान्स्याच्चतुर्ग्रहीतेनाऽऽज्येन सप्तहोत्रा पूर्वामाहुतिं जुहोति ग्रहेणोत्तराम् ॥ २१ ॥

यो यजमानो यज्ञस्य संस्थां समाप्तिमनु समाप्तौ सत्यामेव पापीयान्द्वेष्यः स्यादिति कामयेत स चतुर्ग्रहीतेनाऽऽज्येनेत्यादि ।

व्याख्याताः क्रतुसंयुक्ताः।

अग्निमादधानो दशहोत्रारणिमवदध्यात् । तेनैवोद्रुत्याग्निहोत्रं जुहुयात्, हवि. निर्वप्स्यन्दशहोतारं व्याचक्षीत, सामिधेनीरनुवक्ष्यन्दशहोतारं व्याचक्षीत, दशहोतारं पुरस्तात्सामिधेनीनां व्याचक्षीत, बहिष्पवमाने दशहोतारं व्याचक्षीत, माध्यदिने पवमाने चतुर्होतारम् । आर्भवे पवमाने पञ्चहोतारं पितृयज्ञे षड्ढोतारं यज्ञायज्ञियस्य स्तोत्रे सप्तहोतारमित्येवमादिभिर्विधिभिस्तत्तत्प्रकरण उक्तास्ते तत्तत्प्रकरणे व्याख्याता उक्ता इत्यर्थः ।

अभिचरन्दशहोतारं जुहुयात्स्वकृत इरिणे प्रदरे वा फडिति वषट्करोति यं ब्राह्मणं विद्यां विद्वाꣳसं यशो नर्छेत्सोऽरण्यं परेत्य दर्भस्तम्बमुद्ग्रथ्य ब्राह्मणं दक्षिणतो निषाद्योच्चैश्चतुर्होतॄन्व्याचक्षीत सग्रहान्सस्वाहाकारान्ससंभारयजुष्कान्सपत्नीकान्सप्रतिग्रहणमन्त्रानपि वा चतुर्होतॄनेव यो ब्राह्मणो दक्षिणत आस्ते वरं तस्मै दद्याद्यदेवैनं तत्र यश ऋच्छति तद्वरुणोऽवरुन्ध इति विज्ञायते ।

अमिचारः शत्रुमारणार्थकं कर्मोच्यते । इरिणमुखरो देशस्तत्स्वयं कृतं भवति न पुरुषप्रयत्नकृतम् । प्रदरो भूमिच्छिद्रम् । फडिति वषट्करोति । फडित्येव पाठो न तु वडिति । यद्वाचः क्रूरं तेन वषट्करोतीति श्रुतेः । वाचः क्रूराण्यारण्यकश्रुत्या प्रदर्शितानि-खट्फट्, जहि च्छिन्धि मिन्धि हन्धि कट, इति वाचः क्रूराणीति । फडिति सर्ववाचः क्रूग़णामुपलक्षणम् । एतेषामन्यतमेन वषट्करोति स्वाहाकारस्थाने खडाद्यन्यतमेन शब्देन जुहोतीत्यर्थः । अमुमर्थ स्पष्टमाहाऽऽपस्तम्बः-यद्वाचः क्रूर तेन वषट्करोति वाच एवैनं क्रूरेण प्रवृश्चति ताजगातिमार्छतीति विज्ञायत इति । ब्राह्मण- ग्रहणात्क्षत्रियवैश्ययो यं विधिः । विद्या वेदः । यशः श्रोत्रियत्वख्यातिः । एते उभे विद्वासं प्रति न अच्छेन्न प्रामुत इत्यर्थः । स विद्वानुथ्य बद्ध्वा दक्षिणतो दर्भस्त. म्बस्य यं कंचन ब्राह्मणं निषायोपवेश्य, उच्चैः, यजुर्वेदेनोपाश्चितिप्राप्तस्योपांशुत्वस्या- नेन बाधः । अत्रोच्चैरिति विधानादन्यत्र नेदम् । चतुर्होतॄन्दशहोतृसप्तहोतृषड्ढोतृपञ्च. होतृचतुर्होतॄन्व्याचक्षीत वाक्यशः पठेत् । यदेवैषु चतुर्धा होतारस्तेन चतु:तारः, तस्मा- , १ ङ' ज. झ. अ. °वडिति । २ च. छ. होतॄन्व्या ।