पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१० पटलः] गोपीनाथभकृतज्योत्स्नाब्याख्यासमेतम् । ११०१ त्येतद्विधिविषयेऽपि वेत्यनेन प्रकारान्तरं विधीयते । अत्र विशेष इयान्, चतुर्थीतुर्मन- साऽनुदवर्ण पूर्वेण महेण ग्रहभागेण वाचस्पते वाचो वाण संभृततमेनाऽऽयक्ष्यसे यनमानाय वार्यमित्येतावान्ग्रहस्य पूर्वो मागः । आसुवस्करस्मै वाचस्पतिः सोमं पिबति जननदिन्द्रमिन्द्रियाय स्वाहेत्युत्तरो महस्य मागः। पूर्वभागान्तेऽपि जुहोति चोदि- तत्वात्स्वाहाकारः प्रयोज्यः । उत्तरत्र पठित एव । अर्धमित्युभयत्राऽऽज्यस्येति शेषः । सङ्ग्राम नित्या यत्तत्र धनं लमेरस्ततोऽपकृष्य दक्षिणा देया। शतमेव देयमित्येक पाचार्या बदन्तीत्यर्थः ।

चतुर्होत्रा याजयेत्प्रजाकामम् ।

यानयेदित्यन्त वितो णिच् । तेन प्रमाकामो यजेदित्यर्थो मवति । षनिधातुप्रयो- जनं पूर्ववत् ।

तस्य स एव होमकल्पः।

खिलेऽच्छदिर्दर्श इत्यारभ्यामुत्तरेणेत्यन्तः । अत्र विशेषमाह

वरो दक्षिणा।

यत्तत्र विदेर रस्ततो दक्षिणा स्याच्छत्तमेके समामनन्तीत्यस्य बाधः ।

पञ्चहोत्रा याजयेत्पशुकामम् ।

पूर्ववद्यारूपानम् ।

चतुर्गृहीतेनाऽऽज्येन पञ्चहोत्रा पूर्वामाहुर्ति जुहोति ग्रहेणोत्तरामपि वा पञ्चहोतारमनुद्रुत्य पूर्वेण ग्रहेणार्धं जुहोत्यर्धमुत्तरेण ।

पूर्ववदेव व्याख्या । दक्षिणायामत्र विशेषमाह-

तस्यैताश्चतस्रो दक्षिणा अश्वो हिरण्यं वासो गौः।

तस्य पञ्चहोतृहोमस्य । अन्यमपि प्रकारमाह-

भ्रातृव्यवन्तं चादक्षिणेन होमग्रहाभ्याꣳ सप्तहोत्रा याजयेत् ।

होमः सप्तहोतृहोमः । पूर्वेण ग्रहेणार्ध जुहोत्यर्धमुत्तरेणेत्येतौ विधी होमग्रहशम्मे नोच्यते । अदक्षिणेनेति सप्तहोतृविशेषणम् । प्रकारान्तरमाह- ५ च. "तारं मनसाऽनु। १३९