पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[स०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०९९ अनु पश्चान्मुख्यः प्रतिग्रहमन्त्रांश आधीयते योज्यत इत्यन्वाधिरिति । वाससि विशेष- माहाऽऽपस्तम्बः-मास्त्वाऽकृन्तन्नपसस्त्वाऽतन्वत वरूत्र यस्त्वा वयमित्येतद्वाप्तस्यनुष- जति पुरस्तावतादिति । वाससि परस्तात्सावित्रस्य पुरस्ताच्च सोमशब्दस्यैतदनुषज- तीत्यर्थः । तेनापृश्चतेत्यनन्तरमनुषङ्गोऽस्मत्सूत्रेऽपि भवति । इदमुपलक्षणं, तेन जागृ. विरित्यनन्तरं तेनामृतत्वमित्यनुषज्यते । इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया-. जिद्विसाहास्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- वाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमप- नस्य षष्ठः पटलः ॥६॥

10.7 अथ दशमप्रश्ने सप्तमः पटलः ।।

अथानन्तरपटलेन चतुर्होतॄणां काम्यनैमित्तिकान्प्रयोगान्वक्ष्यस्तदध्ययनअनमपि प्रप्त-

संवत्सरं चतुर्णामेको नाश्नीयादिति चतुर्होतृॄणामुपयोगव्रतं भवति ।

चतुर्णामेकपतौ मुञ्जानानामन्यतमः संवत्सरं नाश्नीयादिति यहां तच्चतुर्होत्रणाम- पयोगोऽध्ययनं तदर्थ भवति । उपयोगोऽध्ययनमेव । तथा चाऽऽपस्तम्बः-संवत्सरं चतुर्णामेको नाश्नीयात्तद्वतमिति विज्ञागते. चतुहोणामनुब्रुषाणस्येति । एतद्वतं चतु- होतूननुवाणस्थाधीयमानस्य विज्ञायते । अत्र विशेषमाहाऽऽपस्तम्बः-रूप पा.. अनाहिताग्नेरिष्टिर्यचन्हों तार इति । अस्यार्थ:--इष्टिर्यज्ञः । एतदुक्तं भवति. श्रौता अध्येते चतुर्होनुप्रयोगा अनाहितामेरपि भवन्तीति । तत्राऽऽहितामेराहवनीयेऽनाहि. तारोपासने ।

यः कामयेत बहु स्यां प्रजायेतेति सोऽरण्यं परेत्य दर्भस्तम्बे दशहोतारमूनया पूर्णया वा स्रुचा जुहुयात् ।

बहु सर्वेषां मध्ये बहु धनेन विद्यया वा यथा स्यामिति प्रनायेत बढ्यः प्रजाश्च भायेत जायेयुरिति च य एवं कामद्वयं कामयेत सोऽरण्यं परेत्य. गत्वोनया पूर्णपा षा स्नुचा जुहुयात् । आहवनीय आहिताग्नेरनाहिताग्नेरौपासने । १ च छ "सि पुर।