पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रभे- अपृश्चतेतिसौत्रमन्त्रान्ते तेनामृतत्वमश्यामित्यनुषज्यते । लिङ्गानुसारेणैतेषां मन्त्राणां प्रतिग्रहे विनियोगः । एतेष्वप्यनुषङ्गः साम्यात् । तत्र तेन तथेति यथार्थमूहः कार्यः यद्यनो दीयते यस्मिन्कर्मणि तत्र त्वष्ट्रेऽनामित्यूहः कार्यः । गर्दभाश्वतरयोयत्यस्तयो. दीने तु नित्या. अश्वतरं नित्य गर्द ममित्येवं मन्त्रः । नगलंकरणयोग्यत्यस्तयोदीने तु गन्धर्वेभ्यः सनमप्सरोभ्योऽलंकरणमिति भवति । धान्यं ब्रीहियवादि । अन्नमरनीय मध्वाज्यादि नवोदनः । तस्य पृथगुपादानात् । रथे वैश्वानर्यर्चा समुच्चयः । अप्राण- द्रव्यस्योत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णात्वित्येव मन्त्रः । तथा च श्रुतिः-तस्य वा उत्तानस्याऽऽङ्गीरसस्याप्राणप्रति नग्रहुष इत्युपक्रम्य य एवं विद्वानप्राणप्रतिगृह्णाति अथ योऽविद्वान्प्रतिगृह्णाति अष्टमस्येन्द्रियस्थापक्रामतीत्युपसंहृत्य यद्वा इदं किचेत्यार- म्यानयैवैनत्प्रतिगृह्णाति नैन हिनस्तीत्यन्तया श्रुत्या, उत्तानस्त्वाऽऽौरसः प्रति- गृह्णात्वित्यप्राणिद्रव्यप्रतिग्रहमन्त्री विहितः । अत्राऽऽपस्तम्बोऽपि-पकिचाप्राण. तत्सर्वमुत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णीयाद्यद्वाऽनाम्नातमन्त्रमिति । अस्यार्थः-यत्किंचा. न्यदप्राणिद्रव्यं तदने प्रतिगृह्णीयात् , यदनाम्नातमन्त्रं वा स्यात् , आम्नातमन्त्रं हिरण्यादि तु तत्तन्मन्त्रेणैवेत्यर्थः ।

सर्वेषाꣳ सावित्रमेकैकस्याऽऽदितो दधाति तेनामृतत्वमश्यामित्यनुषङ्गमन्ततः ॥ २०॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने षष्ठः पटलः ।

सर्वत्र पुरस्तात्सावित्रः । देवस्य सवितुरित्यादिक्षिण इत्यन्तः सावित्रो मन्त्रः । त दधाति योजयति । तेनामृतस्वमश्यामित्यादिः(३) प्रतिगृह्णात्वित्यन्तस्य मन्त्रस्यानुषत. मन्ततः । अग्नये हिरण्यं सोमाय वासो नास्त्वाऽकृन्तन्नपप्तोऽतन्वत वरूत्र योऽवय. नवधियो अपृश्चत रुद्राय गां वरुणायाश्वं प्रजापतये पुरुषं मनवे तरूपं त्वष्ट्र जां पूष्णेऽवि नित्या अश्वतरगर्दभी हिमवतो. हस्तिनं गन्धर्वाप्सराम्पः स्रगलंकरणे विश्वभ्यो देवेभ्यो धान्यं वाचेऽन्नं ब्रह्मण ओदनं समुद्रायाप उत्तानायाऽऽङ्गीरसायानो वैश्वानराय रथं वैश्वानरः प्रत्नथा नाकमारुहद्दिवः पृष्ठ भन्दमानः सुमन्मभिः स पूर्वव- जनयजन्तवे धन५ समानमज्मा परियाति जागृविरित्येते मुख्याः प्रतिग्रहमत्रांशाः । एतेषां सर्वेषां पुरस्तात्सावित्रः । तेनामृतत्वमश्यामित्युत्तरानुषङ्गः । उपरिष्टाइनुषञ्ज. नीयस्य भागस्यान्वाधिरिति संज्ञा कृताऽऽपस्तम्बेन-सर्वत्र पुरस्तात्सावित्र उपरिष्टा- दन्वाधिरिति । प्रथमवद्वितीयादिमन्त्रेष्वपि देवस्य स्वेत्यादिदक्षिण इत्यन्तः सावित्रो मन्त्रः पुरस्तादनुषज्यते । तेनामृतत्वमश्यामितिमन्त्रस्यानुषङ्गमन्तत उपरिष्टादित्यर्थः - १. व. ज. झ. अ. "तो निद ।