पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संत्यापाढविरचितं श्रौतसूत्र- [१० दशमप्रश्ने-

गन्धेन च प्रियोद्येन च तल्पम् ।

गन्धः मुगन्धिद्रव्यं चन्दनमात्यादि । प्रियोद्यं प्रियभाषणम् । चकारद्वयं गन्ध. प्रियोद्ययोरेककालिकत्वं नतु क्रमिकसमृच्छयमात्रमितिज्ञापनार्थम् । तत्पशब्दः शास्त्रेषु स्त्रियां प्रयुक्तो लक्षणया । स्त्रिया दानं वाजपेय एव । तत्र दासीनां दक्षिणात्वेन विहि- तत्वात् , न तु देवविवाहविधिना दीयमानायाः कन्यायास्तस्या वक्षिणात्वेनादीयमान- स्यात् । दक्षिणान्वेन दीयमानत्वं कन्याया नास्तीत्यत्र लिङ्गमृत्विने प्रतिपादयेदिति- धर्मसूत्रगतः प्रतिपादनशब्दः । अथ यदि दक्षिणाभिः सह दत्ता स्यात्ता प्रतिगृह्णी. याप्रजापतिः स्त्रियां यश इत्येताभिः पभिरनुच्छन्दसमिति बौधायनसूत्रे दक्षिणाभिः सह दत्ता स्यादिति प्रतिग्रहे मन्त्रान्तरविधानं च लिङ्गम् । एतेन वाजपेयसंबन्धिदा- साविषयक एवायं विधिनतु यज्ञतन्त्रान्तर्गतदैवविवाहप्रतिपाद्यकन्याप्रतिग्रहविषयकः । एतेन कन्याप्रतिग्रहमात्रविषयकत्वमेव कैश्चिदुक्तं तन्निरस्तं द्रष्टव्यम् ।

बर्हिः प्रत्युत्तिष्ठति बर्हिर्वै दक्षिणायाः प्रियं धाम प्रियो दक्षिणाया भवत्येनं दक्षिणाऽऽगच्छति ।

बर्हिः प्रतिवाहिष्टा प्रत्युत्तिष्ठति मौर्वाऽश्वो वा । अत्र हेतुभूतत्वेनार्थवादमाह- बहिवं दक्षिणायाः प्रियं धामेत्यादिनैनं दक्षिणाऽऽगच्छतीत्यन्तेन । वैशब्दो. हेतुवा- चकार्थे । हि यस्मात्कारणावहिर्गोरूपाया अश्वरूपाया वा दक्षिणायाः प्रियं धाम प्रियं स्थानमतस्तस्मिन्प्रदत्ते दक्षिणाया गोरूपाया अश्वरूपाया वा प्रियो भाति । स्वस्मिन्त्रियत्वे संपन्न एनं प्रतिग्रहीतारं दक्षिणाऽऽगच्छति गोरूपा वाऽश्वरूपा वा दक्षिणाऽनुकूला भवति न शृङ्गाविना गोरूपा दक्षिणा ताडितुं प्रवृत्ता भवति । अश्वो *लत्तापहारसंशनादिना प्रक प्रवृत्तो [न] भवतीत्यर्थवादार्थः । अत्रार्थवाद- र्शनं ज्ञानावश्यकत्वार्थम् । एतच मोरूपाश्वरूपदक्षिणाविषय एव नान्यत्र ।

देवा वै वरुणमयाजयन्स यस्य यस्यै देवतायै दक्षिणामनयत्तामव्लीनात्तेऽब्रुवन्व्यावृत्य प्रतिगृह्णाम तथा नो दक्षिणा न व्लेष्यतीति ते व्यावृत्य प्रत्यगृह्णन्ततो वै तान्दक्षिणा नाव्लीनाद्य एवं विद्वान्व्यावृत्य दक्षिणां प्रतिगृह्णाति नैनं दक्षिणा व्लीनातीति।

एतदर्थस्तु देवा ऋत्विम्भूताः सन्नो कै निश्चयेन वरुणमयाजयन्नीजितवन्त आसन् । स वरूगो यस्मै यस्मा ऋत्विम्भूताय देवतापरपर्यायदेवाय दक्षिण दत्त. बांस्तां देवतां दक्षिणालीनाद्धिसितवती । ततो देवाः परस्परं विचारं कृतवन्तो

  • संस्कृतभाषायां लत्ताशब्दस्याभावात्पादपहारेति वक्तुं युक्तम् ।