पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[६५० पटः] गोपीनाथभट्टकृतज्योत्स्नाध्याख्यासमेतम् । १०९५

स त्वं नो नभसस्पत इति वायुं देवसꣳस्फानेत्यादित्यम् ।

सक्तहोमे हूयमान इत्यनुवर्तते । कृधीत्यायमन्त्रान्तः । स्वस्तिमित्यन्तिममन्त्रस्यान्तः ।

अनड्वाहमनडुहो वा हिरण्यमुदवसानीयायां ददाति ।

अनड्डाहमनङ्कहो वेत्यनेन संख्याविकल्पः'। हिरण्यस्य समुच्चयः । उदवसानार्थे- ष्टिरुदवसानीपा तस्यामित्यर्थः ।

यथाशक्ति पूर्णाहुतौ ।

अनेन द्रव्यानियम उच्यते ।

अपवृत्ते षोडशिनः स्तोत्रे तमेवाश्वमश्वतरीं वा दक्षिणां ददाति ॥१८॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने पञ्चमः पटलः ।

1 तमेवाश्वमित्यनेन यस्य स्तोत्रकाल उद्गातॄणां पुरस्ताद्धारणं विहितं तस्य दान बोध्यते । गर्दभाडवायां जाता स्त्रयश्वतरो तां वा दक्षिणां दद्यात् । इत्योकोपाहश्रीमदनिष्टोमयाजिसाहस्राग्नियुक्तवाजपेयमाजिर्वतोमुखया- जिद्विसाहस्राग्नियुक्तपौण्डरी कयाजिगणेशदीक्षिततनुजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसू- वाम्बुधिगतनिगुढारित्नालाभकृतविद्वज्जनसंताप- शामिकायांज्योत्स्नाख्या वृत्तौ दशमम- नस्य पञ्चमः पठला ॥५॥

10.6 अथ दशमप्रश्ने षष्ठः पटलः ।

दक्षिणां प्रतिग्रहीष्यन्प्रतिगृह्य वा सप्तदशकृत्वोऽपानिति ।

प्रतिग्रहीष्यन्निति भविष्यनिर्देशादादावेव सप्तदशकृत्वोऽपाननम् । प्रतिगृह्येत्यने- नानन्तरम् । अयं शाखान्तरीयः पक्षः । अधो वायोनयनमपाननम् ।

बर्हिषा प्रतीयाद्गां वाऽश्वं वा ।

बर्हिस्तृणमुष्टिः । गां दीयमानामश्वं वा दीयमानं आसार्थेन तृणमुष्टिना गामश्वं वा प्रतिगच्छदित्यर्थः । बर्हिषा प्रतीयानां वाऽश्वं वेतिब्राह्मणस्मरणार्थ वाकारद्वयम् ।

अन्नेन पुरुषम् ।

पुरुषो मनुष्यजातीयो दासो दासी वा । अत्राऽऽपस्तम्बेन हस्तिन प्रत्यप्यनेनैव प्रतिगमनमुक्तं तदप्यस्माकमिष्टम् । पुरुषग्रहणस्य हस्त्युपलक्षणत्वात् ।