पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- सत्याषाढविरचितं श्रौतसूत्रं- [१. दशमप्रभे-

हविषो वाऽथ पेषणम् ।

कुरुत इति पूर्वमूत्रादनुवर्तते । तस्मिन्कृष्णाजिने हविष्पेषणं वा कुरुते प्राकृत कृष्णाजिनं परित्यज्य ।

पुनर्दीक्षाया एवैनन्निधत्ते ।

पुनःशब्दात्स्वार्थक्य (वयं)दीक्षा । अन्यत्स्पष्टम् ।

पुत्राय वैनद्ब्रह्मचारिणे वा दद्यात् ।

पुत्राय दीक्षाद्यर्थम् । ब्रह्मचारिणे शयनाप्सनार्थम् ।

यदि पुरस्तादप्रास्तं भवति ।

यदि पुरस्तादप्रास्तं भवति तदैवैता होमाद्याः प्रतिपत्तयः ।

उदयनीयायां व्रतमुपैति ।

स्पष्टम् ।

अनूबन्ध्यावपायाꣳ हुतायां दक्षिणस्यां वेदिश्रोण्यां परिश्रिते यजमानस्य केशश्मश्रूणि वापयतेऽत्र ददाति यद्दास्यन्भवति ।

रात्रावपादं क्षौरं श्रौतस्वात् । अत्र ददातीत्यनेन पशुसंवन्धिदक्षिणात्वेनैव गोदान न वरत्वेन । यद्दास्यन्भवतीत्यनेन द्रव्य जात्यनियमः सूच्यते हिरण्यं गोळसो वेति ।

व्याख्यातः स्वरुर्हृदयशूलो यूपोपस्थानं च ।

स्वरुशब्देन स्वरुसंबन्धि कर्म लक्षणयोच्यते । शृङ्गाणीवेच्छृङ्गिणामित्यादिना हुन५ स्वरुमुपतिष्ठत इत्यन्तेन पाशुबन्धिकथानमानमूत्रेण व्याख्यातमु कम् । हृदयशूल. शब्दनापि तत्संबन्धि कर्मोच्यते । हृदयशूलेन चरन्त्यस्पृशन्हत्वा शुगसीत्यादिनायो अन्वचारिषमित्युपतिष्ठन्त इत्यन्तेन पाशुवन्धिकावयवसूत्रेण व्यारूपातमुक्तम् । यूपो. पस्थानमाशासानः सुवीर्यमिति संस्थिते यूपमिति पाशुबन्धिकयानमानसूत्रेण व्याख्या- तमुक्तम् ।

मिथुनौ गावौ मैत्रावरुण्यामामिक्षायां ददाति ।

अत्र मिथुनगोरूदक्षिणाया उक्तत्वामुख्यानूवन्ध्यायां मिथुनगौदव्यतो यहास्य- म्भवतीत्यनेन मौक्याधिक द्रव्यं देयमित्यापिकमिति लोकप्रसिद्धं च । स्पष्टः सूत्रस्यार्थः ।

सक्तुहोमे हूयमानेऽयं नो नभसा पुर इत्यग्निमुपतिष्ठते ।

हूयमान इति वर्तमाननिर्देशादध्वर्युगा सक्तुहोमे क्रियमाणे तस्मिन्नेव काल इदमु. पस्थानम् । असन्निति मन्त्रान्तः । १ क. च. छ. द. ण्यामि।