पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[५५०पटलः] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । २०९३

ते उदयनीयायामध्वर्यवे दत्तः ॥ १७ ॥

ते वाससी। अन्यत्स्पष्टम् ।

व्याख्यातमुन्नयनम् ।

उन्नेतर्वसीयो न उन्नयेत्यादिना होतृप्रथमान्यनमानप्रथमान्वोत्नयतीस्यन्तेन सूत्रेण व्याख्यातमुक्तम् ।

महीया।

महीपाजप इत्यर्थः । प्रथमान्तः पाठ एव युक्तः । अपाम सोमममृता अभूमेश्या- दिना महोयां जपन्त इत्यन्तेन सूत्रेण व्याख्यात उक्त इत्यर्थः । अत्राऽऽयस्त बेन थान्यपामियान्यप्रती सान्यस्मि अनृणा अस्मिन्ननृणाः परस्मिन्नेित्येतयोमत्रयोरपि महो- थाजपोत्तरं जपे विनियोग उक्तः सोऽप्यमाकमिष्टः ।

समिदभ्याधानम् ।

औदुम्बरीः सनिधो धारयन्त इस्यनेन सूत्रेणधोऽस्येधिषीमहोत्याहवनीय सभि- घोऽम्यादैधतीस्थतेन सूत्रेण च व्याख्यातमुक्तमिल्यर्थः । प्रतियुतो वरुणाय पाश इत्यादिनोदकान्तं प्रस्य येत्येतदन्तं कर्मापि ल्यपा संबन्धोधनाहयते । उन्नेतारं पुर- स्कृत्या प्रतीक्षमायन्ति परोमाष्ठे मार्जयन्त इत्येतत्कर्म गोऽप्यत्र ग्रहणं मध्यपातित्वात् ।

उपस्थानं च ।

भयो अन्वचारिषमित्युपतिष्ठन्त इत्यनेन सूत्रेण व्याख्यातमुक्तमित्यर्थः ।

अपरेण शालामुखीयमुपविश्य जुह्वां पञ्चगृहीतं गृहीत्वा कृष्णाजिनमुपस्थ आधाय मयीन्द्र इन्द्रियं ज्यैष्ठ्यꣳ श्रैष्ठ्यं दधात्विति जुहोति ।

चहीतेन सह शालामुखीये जुहोतीत्यर्थः । जुहोति चोदितत्वापत्र स्वाहाकारः । इन्द्रो देवता लिङ्गात् ।

कृष्णाजिनं प्र वाऽऽपयते ।

प्र वाऽऽपयत इत्यत्राऽऽपयत इति पदच्छेदः । व्यवहिताचेति पाणिनिसूत्रेण मध्ये वाकारः । प्रापयते वेत्यन्धयः । शयनासनाद्यर्थं प्रापयते शयनासनायर्थमुपयु. ज्यादित्यर्थः।

स्रुगवधानं वा कुरुते ।

सुचामवधान स्थापनं तस्मिन्कृष्मानिने कुयाद्वेत्यर्थः । १ज. झ, ञ, महीयाम् । १ च. 'दवाती।