पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५०पटला] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०११

हुतेषु समिष्टयजुःषु अग्निना देवेन पृतना जयामीति जागतान्विष्णुक्रमान्क्रामति ।

हुतेषु समिष्टय नुःवित्यनेनैतत्पूर्वतनं तावत्पर्यन्तं प्राकृतं पौरोडाशिक पाशुकं च कर्म सूच्यते । सौमिका एते विष्णुक्रमा जागतसंज्ञका ये विष्वतिक्रममन्त्रैः क्रम्यन्ते ।

उपसृजन्धरुणं मात्रे मातरं धरुणो धयन् । रायस्पोषमिषमूर्जमस्मासु दीधरदित्युपनिष्क्रामन्नौदुम्बरीमुत्खिदति ।

अवभृधार्थ निष्कामन्त्रौदुम्बरी स्वस्थानादुत्पादयतीत्यर्थः । निष्कामन्निति शतृप्र- त्ययानिष्क्रमणसमकालमेवौदम्बर्या उत्खेदनम् ।

अव ते हेडो वरुणेत्युन्मुच्य कृष्णाजिनं चात्वाले प्रास्यति ।

औदुम्वर्युत्खेदनानन्तरं तूप्णीमेव स्वाङ्गाद्विसुज्य मन्त्रेण चास्वाले प्रक्षिपतीत्यर्थः ।

उदु त्यं चित्रमिति द्वाभ्यामादित्यमुपतिष्ठते यद्यस्तमितः स्यादाहवनीयमेवाऽऽदित्योपस्थानेनोपतिष्ठते ।

यत्र यत्रेदं वचनं तत्रैवेदम् । अन्यत्र वादित्योपस्थानलोप एवेत्युक्तमेव प्राक् । उदु त्यं जातवेदसं चित्रं देवानामुदगादनीकमिति द्वाभ्यामादित्योपस्थानम् । अन्य- स्पष्टम् ।

व्याख्यातं निधनोपायनम् ।

सह पत्न्या त्रिः सर्वे साम्नो निधनमुपयन्ति मध्यदेशे द्वितीय साम्नो निधनमुप. यन्त्युदकान्ते तृतीयमित्येतेः सूत्राख्यातमुक्तमित्यर्थः ।

सुमित्रिया च मार्जनम् ।

सुमित्रियेतिस्रोलिङ्गनिर्देशादयं मन्त्र भक्त्वेन ज्ञेय इति गम्यते। सुमित्रा न आप ओषधयः सन्वित्ययं मन्त्रः सुमित्रिया(त्रा) । सुमित्रिया माननं चेस्यन्वयः । सुमित्रा न आप इति मार्जयन्त इत्यनेन व्याख्यातमुक्तमित्यर्थः ।

इन्द्रियाय ज्येष्ठ्याच्छ्रैष्ठ्यान्मा योषमित्युन्मुच्य कृष्णाजिनमभ्युक्ष्य निदधाति यदि पुरस्तादप्रास्तं भवति ।

यदि पुरस्तादप्रास्तं मत्रतीत्यनेन चावाले यत्कृष्गानिनप्रासनं तस्य पाक्षिकत्वं सूच्यते । तेन यदि पुरस्तादप्रास्तं भवति तदैतन्निधानमिति अवगम्यते ।

सुमित्रा न इत्यभिप्रगाह्यानुपमज्जन्तौ सहशिरस्कौ स्नातोऽन्योन्यस्य पृष्ठं प्रक्षालयतः प्रतीपमाप्लवमानौ गाहेते ।

स्मानं द्विविधम् -आप्लवरूपमुपमजनरूपं चेति । तत्राऽऽलवरूपं स्नानं तु शरी- रप्रक्षालनमात्ररूपम् । उपमज्जनरूपं तु अप्स्वन्तर्धानात्सकम् । तत्रोपमजनरूपनान. १, ज, झ, ज. रीमाक्खिद'। २ छ, ज.श. ज. 'याज्यैष्ठथा'।