[१५० पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । १०८९
निष्केवल्ये वरं ददाति ।
निष्केवल्याख्ये शस्त्रे । होत्र इति सामर्थ्यात् । पुनः पुनर्वरं ददातीतिवचनं रथं- तरपृष्ठस्यामावेऽप्येतयोर्वरदानं भवत्येव न तु संनियोगशिष्टशङ्का कार्येतिबोधनार्थम् ।
आदित्यग्रहꣳ हूयमानमन्वारभते ।
स्पष्टम्।
आयुषे हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादार्भवात्पवमानाद्व्याहृतीः पञ्चहोतारं च जपति ।
गतार्थम् ।
सघाऽसि जगतीछन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारयेति स्तूयमानमन्वारभते ।
इदमपि कृतव्याख्यानम् ।
यत्र स्वं चमसं न्यन्ते त्रीन्पुरोडाशशकलान्दक्षिणत उपास्यति ।
अत्र स्वर स्वमिति त्रीश्त्रीनिति चोभयत्र वीप्सासहितः पाठः प्रामादिक एव । अन्यतत्सूत्रप्रणयनमेव व्यर्थ स्यादिति ज्ञेयम् । तेन यजमानकर्तृकमात्रपरतयैवेई सूत्रमुपपन्नं भवति ।
तत्कृत्वा प्राचीनावीतं कृत्वा षड्ढोतारं व्याख्याय दानप्रभृतीन्प्रत्यायनान्तान्पिण्डपितृयज्ञमन्त्राञ्जपति ।
उपास्यन्तीति जपन्तीत्युमयत्र बहुवचनान्तपाठोऽपि प्रामादिक एवानन्तरोक्तहेतोः। नन्वाध्वर्यवसूत्रान्तर्गतवीप्सासहितपाठेन बहुवचनान्तपाठेन चैव सिद्धावत्र वचनमृषि. गसाहित्यार्थम् । तेन पृथगेवत्विक कपिण्डदानानन्तरमेवैतस्य भवति ।
यज्ञायज्ञिये वरं ददाति ।
उद्गातृम्य उद्गाने वा।
पुरस्तादग्निष्टोमस्तोत्राद्व्याहृतीः सप्तहोतारं च जपति ।
यज्ञायज्ञियस्याग्निष्टोमसंस्थास्तोत्रत्वादग्निष्टोमस्तोत्रादित्युक्तम् ।
सुभूरसि श्रेष्ठो रश्मीनां प्रियो देवानाꣳ सꣳसाधनीयः। तं स्वा(त्वा) सुभो देवा अभिसंविशन्त्विषोऽसि त्वेषोऽसि
- ज. झ. पुस्तकथोपन्तीति पाठः ।
१. च. ज. स. प. स्वर स्वं । २ . च. ज. स. न. "न्ते चीनीन्पु । ३७. च. ज. अ. प. उपास्यन्ति। - इ, ज, झ. अ. सश्सध । ५ छ, सुनो। च. सुभवो। ज. अ. सुतो। स. सुवो।