पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८८ सत्यापाठविरचितं श्रीतसूत्र- [१० वशमनश्शे- दक्षिणासु प्रदत्तासु स्वकर्म परिहापयेत् । कृतस्यैव लमेतांशमन्येनैव च कारयेत् ॥ इति । अन्यञ्च मनु:-त्विज यस्त्यजेद्याज्यो याज्यं चरिवक्त्यजेद्यादि। शक्तं कर्मण्यतुष्टं च तयोर्दण्डः शतं शतम् ॥ इति । इत्योकोपाहश्रीपदमिष्टोपयाजिसाहस्राग्नियुक्तचाजपेययाजिसर्वतोमुखया- जिद्विसाहस्राग्नियुक्तपीण्डरीकयाजिगणेवादीक्षिततनूनगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिमू- त्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वजनसंताप- शापिकायां ज्योत्स्नाख्यायां वृत्तौ दशमम- अस्य चतुर्यः पटलः ॥ ४॥

10.5 अथ दशमप्रश्ने पञ्चमः पटलः ।।

नीतासु दक्षिणासु हरिणस्य रघुष्यतोऽधिशीर्षाणि भेषजꣳ सक्षेत्रियं विषाणया विषूचीनमनीनशदित्युन्मुच्य कृष्णविषाणामनु त्वा हरिणो मृगः पद्भिश्चतुर्भिरक्रमीन्माऽहिर्भून्ना पृदाकुरिति चात्वाले प्रास्यति ।

नीतासु दक्षिमासु चात्वाळे कृष्णविषाणां प्रास्यतीत्येतस्य ब्राह्मणस्य स्मरणमा- वश्यक प्रयोगकाच इतिबोधनार्य कृष्णविषाणोन्मोचने हरिणस्य रघुष्यत इति मन्त्रः । चावाले प्रास्यतीत्यत्र पूर्वसूत्राकृष्णविषाणामित्यनुवर्तते ।

रयंतरे वरं ददाति।

यदि स्यंतरं पृष्ठं तदैवायं करो न बृहदादिषु इत्येतदर्थम् । यदि सा(!)अत्राऽऽप- स्तम्बेन विशेष उक्तः-ऋविम्यो नमस्करोति । एवं दत्तासु नीतासु च दक्षिणा स्वृत्तिाभ्यो नमस्करोतीत्यर्थः । होतुः पृष्ठे वरं ददातीति सामान्यतो वक्तव्यम् । तेनैव सर्वेषु होतुः पृष्ठेषु वरदानसिद्धौ सामान्यतः सर्वेषु होतुः पृष्ठेषु वरदानमिष्टमभ- विष्यत्तदा होतुः पृष्ठे वरं ददातीति सामान्यत एवावक्ष्यत् । नच तथा कृतम् । अत एतदर्थत्वमेव ।

वामदेव्ये वरं ददाति ।

वामदेव्यग्रहणप्रयोजनं रथंतरमहणवत् । उद्गातृभ्य उद्दात्रे वेदं वरदानम् । -