पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४च०पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । १०८७ स्तम्बसूत्रसंवादानुरोधेन । तच्च सूत्रमित्थम् -यामन्यो दीयमानां न कामयेत यं द्विष्यात्तस्मै दद्यात्सहान्येन धनेनेति । यदि सर्वैरपि प्रत्याख्यातां गां यदि गोभिः सह चारयेत्स्वी कुर्याद्वा पृथक्चारयिष्यामीति साऽशिवा भूत्वैव दशेत् , अतस्ता द्वेण्यायक दद्यात् । अमुमर्थमाहाऽऽपस्तम्बः-यद्यतिनुत्तां दक्षिणां गोषु चारयेत्प्रति वा गृहीया- रसालावृक्येव प्रतिनीयादिति ।

अन्ततः प्रतिहर्त्रे ददात्यात्रेयाय वा।

प्रतिहर्ने दक्षिणामन्ततो दद्यात् । आत्रेयाय वाऽन्ततः । आत्रेयायान्ततो दानपक्षे तृतीयिषु चतुर्थस्थाने प्रतिहत्रे दानम् ।

न मरुत्वतीययोरनूक्ता दद्यात् ।

यदि मरुत्वतीययोर्ग्रहयोः पुरोनुवाक्याऽनूक्ता भवति ततः परं न देयं यस्मै कस्मैचिदागतायाधिकारिणेऽपि यजमानेन न देयमित्यर्थः । प्रतिग्रहीतृभिरपि न प्रतिग्राह्यम् । अत्र दानं प्रतिग्रहोपलक्षणम् । अमुमर्थ स्पष्टमाहाऽऽपस्तम्बः-यदा मरुत्वतेऽनूक्तमथ न देयं न प्रतिगृह्यमिति ।

यदि दद्यादनूबन्ध्यावपायाꣳ हुतायां दद्यादुदवसानीयायां वेष्टौ ॥ १५ ॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने चतुर्थः पटलः ।

अनूनन्ध्यावपायां हुतायां सत्यां दद्यात्प्रतिगृह्णीयुश्च । अत्रापि दानं प्रतियहोपल- क्षणम् । अमुमर्थ स्पष्टमाहाऽऽपस्तम्बः-अनूबन्ध्यावपाया हुतायां दद्यात्प्रतिगृह्णी- युरिति । आमिक्षापक्षश्चेत्तयागोत्तरम् । उदवसानीयायामिष्टौ समाप्तायां सत्यां वा दद्यादित्यर्थः । पूर्णाहुतिपक्ष इदम् । सोमप्रवाकायापि यथाश्रद्धं सर्वदक्षिणादानोत्तरं बहिर्भूता दक्षिणा देया प्रसर्पकदक्षिणादानोत्तरम् । छान्दोग्योपनिषदि उपस्तिब्राह्मण- दर्शनात् । सदस्याय शक्ती सत्यां सर्वस्विदक्षिणासममधं चतुर्भागं वा बहितं द्रव्यं यथाश्रद्धं देयम् । नारदः-रविजो व्यसनेऽप्येवमन्यस्तकर्म निस्तरेत् । लमेत दक्षिणामागं स तस्मात्सप्रकल्पितम् ॥ इति । अन्य ऋत्विळ्यतिरिक्तोऽन्यः । मनुः-ऋविग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देर्योऽशः स हि कर्तृभिः ॥ १ क. च. छ, 'ति । अनू । २ क. च. छ. द. 'न्यायां व ।