पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८६ सत्यापाढविरचितं श्रोतसूत्रं- [१० दशमप्रश्ने-

नानृत्विजे।

योऽनुत्विक्सदःप्रसृतः स्यात्तस्मै न वाद्यदि शाखाध्ययनवान्न भवेत् । अमुमर्थ स्पष्टमाहाऽऽपस्तम्बः- नाब्राह्मणाय ब्राह्मणायाप्यविदुषे न देयमप्यब्राह्मणाय विद्या- विदे दद्याद्यां स विद्या वेद तो तयाऽवरुन्ध इति । त्रैवर्णिकेषु य एव कश्चित्सार्थ- वित्तस्मै दद्यान्नान्यस्मै यद्यसौ शाखां वेद त तया दक्षिणयाऽऽमोति तस्माद्वेदनमेव दानाहले निदानमिति मावः।

न ज्ञातये।

ज्ञातयः सजातीयाः संबन्धिनश्च । यो स विद्या वेद तो तयाऽवरुन्ध इत्यापस्तम्बे- नात्रापि सार्थवेदनं निदानमुक्तं न तु स्वरूपमात्रवेदनमिति विवेकः ।

नाप्रसृप्ताय।

यः सदसि प्रविष्टो न भवति तस्मै च न दद्यात् । कर्मज्ञानोपयोगित्वेन यः सदप्ति न प्रवेष्ट योग्यस्तस्मै न दद्यादिति तात्पर्यार्थः । यां स विद्यां वेद तो तयाऽवरुन्ध इत्ययं हेतुरापस्तम्बेन सर्वत्रैवोक्तः ।

नाश्रोत्रियाय ।

श्रोत्रियोऽधीतवेदः । न केवलं गान्धर्वादिविद्यावान् , यः केवलगन्धर्वादिविद्यावा. नेव नापीतवेदस्तस्मै न दद्यादित्यर्थः ।

नाब्राह्मणाय ।

बामणायैव देयं नान्यस्मै वयेत्युत्सर्गः ।

वेदविदे दद्यात् ।

यदि अन्यस्मै वर्णाय दद्यात्तदाऽधीतसार्थवेदायेत्यर्थः । अमुमर्थ स्पष्टमुक्तवानाप- स्तम्बः-नाबाह्मणाय ब्राह्मणायाप्यविदुषे न देयमप्यत्राह्मणाय विद्याविदे दद्याद्या स विद्यां वेद तां तयाऽवरुन्ध इति । आर्षेयाय विदुषे दानस्य फलविशेष उक्त आप- स्तम्बेन-यामाया च विदुषे स्वर्गे तया लोकमवामोतीति ।

यामन्यो दीयमानां प्रत्याचक्षीत यं द्विष्यात्तस्मै तां दक्षिणां दद्यात् ।

यां दक्षिणां दीयमानामन्यो यः कश्चन प्रत्याचक्षीतव न कामयीत यदि नेच्छे- ब्रहीतुं तां प्रत्याख्यातां दक्षिणां यः स्वस्य द्वेष्यस्तस्मै द्वेष्याय दयादित्यर्थः ।

स हान्यया प्रतिगृह्णीयात् ।

स प्रतिग्रहीता, हेति निश्चयार्थे, अन्यया दक्षिणया सहैव प्रतिगृह्णीयात् । प्रति- गृह्णीयादित्यत्रान्तर्भावितो णिच् । तेन तं प्रतिग्राहयेदित्यर्थो भवति । अयमर्थ आप- २ . - . १च. छ. “य वेददि । ।