पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४१० पटलः] गोपीनाथमहकृतज्योत्साव्याख्यासमेतम् । १००१ नेऽध्वर्युम्य इति । यद्यपि नेष्टाऽध्वर्युस्तथाऽपि तस्य होत्रकत्वादिष्णियसमीप आसी. नायव दानम् ।

यथाश्रद्धꣳ सदस्याय चमसाध्वर्युभ्यः प्रसर्पकेभ्यश्च ददाति ।

यथाश्रद्धमित्यमेन सन्त्रसंबन्धिदक्षिणाबहिर्भूतां दद्यादिति बोध्यते । स्पष्टममुमर्थ- माहाऽऽपस्तम्बः-अन्यत्र दक्षिणाभ्यश्चमसाध्वर्युप्रसर्पकतरस्येभ्य इति । षया. मित्यनेन परिमाणानियमोऽपि बोध्यते ।

सदस्याऽऽत्मानं ते ददामि तमनेन निष्क्रीणामीति सदस्यायान्तःसदसं दक्षिणा आसीनाय ।

पिष्टम् ।

चमसाध्वर्यवोऽङ्गानि वो ददामि तान्यनेन निष्क्रीणामीति चमसाध्वर्युभ्यो हविर्धान आसीनेभ्यः ।

सष्टम् ।

प्रसर्पका लोमानि वो ददामि तान्यमेन निष्क्रीणामीति प्रसर्पकेभ्योऽन्तःसदसं दक्षिणार्ध आसीनेभ्यः ।

स्पष्टम् । यद्यपि सदस्योऽप्यत्विमेव सप्तदशस्तथाऽपि वचनातन्त्रसंपन्धिदक्षिणामु ब भागभाग्मवति ।

इदं ददामीति सर्वत्रानुषजति ।

इदं वचनमनुदेशः संकल्पमात्रं तथा च मानसिकोऽपि संकल्पः सिध्यति न मन्त्र इति स्याक्तमा भूस्कितु मन्त्रमुच्चार्येव संकल्पो यथा स्यादित्येतादृशार्थअमार्थम् ।

न भीतो ददाति ।

भयशङ्कयाऽपि नायोग्याय ददाति ।

न याचमानाय।

याचमानाय प्रसर्पकायाप्रसर्पकाय च न ददाति ।

न कण्वकाश्यपेभ्यः।

निषिद्धं दानं गोत्रद्वये येषां कण्वकश्यपप्रवरस्तस्मै दानं निषिध्यते । हेतुर्निगमे-कण्वं तु बधिरं विद्याद्विद्यात्काणं तु कश्यपम् । इति । वस्तुतस्त्वयं हेतुश्चिन्त्यः । अङ्गहीनत्वेऽपि तेषामचिन्त्यप्रभावत्वाद्वचनमेव शरणमत्र ।

न वीणागाथिभ्यः।

घोणामाथाभ्यामे ये जीवन्ति तेभ्यो न देयम् । 11 १३७