पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्पाषाढविरचितं श्रौतसूत्र- [१० दशमप्रमे यणं यहास्यन्मवति गोरूपं दन्यं दास्यन्मवति तद्ब्रह्मणे मनोनिष्क्रयणस्वेनानुदिशति संकल्पयतीत्यर्षः । इत्येवं ब्रह्मणे दानम् ।

एवमितरेभ्यः ।

तत्तवननिष्क्रयणानुदेश इत्यर्थः ।

होतर्वाचं ते ददामि तामनेन निष्क्रीणामीति होत्रे होतृषदन आसीनाय ।

इदं ते दामीत्येवमेव सर्वत्रानुदेशः । वक्ष्यति चेदं ददामीति सर्वत्रानुषप्रतीति

अध्वर्यो प्राणं से ददामि तमनेन निष्क्रीणामीत्यध्वर्यवे हविर्धान आसीनाय ।।

सष्टम् ।

उद्गातश्चक्षुस्ते ददामि तदनेन निष्क्रीणामीत्युद्गात्र औदुम्बर्यामासीनाय ।

सष्टम् ।

होत्रकाः श्रोत्रं वो ददामि तदनेन निष्क्रीणामीति होत्रकेभ्योऽन्तःसदसं यथाधिष्णियमासीनेभ्यः।

यथाधिष्णियमासीनेम्य इत्येतावनैव सदस्यन्तरुपवेशने सिद्धेऽन्तःसदसमिसिव- चन विष्णियसमीप उपवेशनं सदस्यन्तरुपवेशनमात्रं येतिपक्षद्वयसूचनार्थम् । इवमा- मोध्रस्य न भवत्यन्तःसदसमिति । तस्य सत्रोपवेशनस्यैवाभावात् । होत्रका मैत्राव. रुणब्राह्मणाच्छंसिपोतनेट्रच्छावाकानीधाः । यथाविष्णियमासीनेभ्य इति सूत्रात् । प्रतिप्रस्थात्रादीनां तु सत्तन्मुख्यविङ्नामसमाख्यानास स एव तेषां मन्त्रो यो गण- मुरूपस्य क्रमस्त्वेषामर्धितृतीयिपादिक्रमाद्धोतृवर्गक्रमाच द्रष्टव्यः । सद्यथाऽध्वयों प्राण ते ददामि तमनेन निष्क्रीणामीति प्रतिप्रस्थात्रे । उद्गातश्चक्षुस्ते ददामि तदनेन निष्क्रीणामीति प्रस्तोत्रे, होतर्वाचं ते ददामि तामनेन निष्क्रीणामीति प्रावस्तुते, अध्वयों प्राण ते ददामि तमनेन निष्क्रीणामीत्युन्नेत्रे, उद्गातश्चक्षुस्ते ददामि तद. नेन निष्कीणामीति सुब्रह्मण्याय, उद्गातश्चक्षुस्ते ददामि तदनेन निष्कोणामीत्यन्ततः प्रतिहः ।

प्रतिप्रस्थात्रे च हविर्धान आसीनाय ।

चकारादुन्नेत्रेऽपि । सुब्रह्मण्यायोगातृसमीपे सदस्यन्तरेवाऽऽसीनाय । ग्रावस्तु- तेऽपि होतृसमीपे सदस्यन्तरेवाऽऽसीनाय । प्रस्तोत्रादिभ्यः स्वस्वस्थान आसीनेभ्यः । असमर्थ स्पष्टमाहाऽऽपस्तम्बः- अन्तःसदस्यासीनेम्य ऋविभ्यो दयाद्धविर्धा.