पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१० पटलः] गोपीनाथमट्टकृतज्योत्याव्याख्यासमेतम् । १०८३

ब्राह्मणमद्य राध्यासमृषिमार्षेयमिति हिरण्यं दक्षिणाभागं चाऽऽदायाऽऽग्नीध्रमभ्येति ।

आमीघ्राभिमुखगमानार्थो मन्त्रः । ऋषिर्वेदस्तस्याध्येता । आर्षेयस्तदर्यवेत्ता ।। । एप में ब्राह्मण ऋषिरायो यः शुश्रुवानितिश्रुतेः ।

एतेनैव मन्त्रेण हिरण्यं दक्षिणाभागं चाऽऽग्नीध्रे ददाति ।

एतेनैव मन्त्रेण, आग्नीधाभिमुखगमनार्थेनैव मन्त्रेण । अन्यत्स्पष्टम् । प्रतिप्रवि- ग्रहं मन्त्रावृत्तिराग्नीधस्य ।

वि सुवः पश्य व्यन्तरिक्षमिति सदः प्रेक्षते ।

सदस्यैरिति मन्त्रान्तः ।

अस्मद्दात्रा देवत्रा गच्छतेति दक्षिणाः ।

प्रेक्षत इति पूर्वसूत्रादनुवर्तते । सस्कृतमिति मन्त्रान्तः ।

पूर्वेण द्वारेण सदः प्रविश्य ॥ १४॥ आत्रेयाय हिरण्यमुत्तमं ददाति तेनैव मन्त्रेण येनाऽऽग्नीध्रे ।

आत्रेयोऽत्रिगोत्रोत्पन्नः । शुद्धात्रेयालाभे गविष्ठिरवाद्भुतकमुद्गलात्मकतदीयगण. चतुष्टयोत्पन्नः । तस्मै हिरण्यमुत्तममुत्कृष्टमितरदत्तहिरण्यापेक्षया नातितो मानतश्यो- स्कृष्टम् । तेनैव मन्त्रेण येन मन्त्रेणाऽऽनीधे दत्तं तेनैवेत्यर्थः ।

तस्मिन्नविद्यमाने य आर्षेयोऽनूचानोऽनूचानपुत्रस्तस्मै तां दक्षिणां दद्यात् ।

तस्मिन्नत्रिगोत्रोत्पन्ने तदीयगणचतुष्टयोत्पन्ने चाविद्यमाने तदलामे यः कश्चनाऽऽ. योऽनूचानोऽनूचानपुत्रश्च ऋषिर्वेदस्तं चार्थ च यो वेद स आर्षेयः । एष वै ब्राह्मण ऋषिराषयो यः शुश्रुवानिति श्रुतेः । अनूचानः, मार्गादनपगतोऽनूचान इति भारद्वामः । यः स्वयमनूचानोऽनूचानपुत्रोऽपि यस्य लिङ्गं चात्र मवति पितृमन्तं पैतृमत्यमिति तस्मै तामात्रेयार्थकल्पितां दक्षिणां दद्यादित्यर्थः । अत्राऽऽपस्तम्बो विशेषमाह-तद. भावे य आर्षेयः संहितस्तस्मै दयादिति । संहितः पित्रादीनामायेण संतत इत्यर्थः ।

अथर्त्विग्भ्यो दक्षिणाभागान्ब्रह्मन्मनस्ते ददामि तदनेन निष्क्रीणामीति ब्रह्मणे ब्रह्मसदन आसीनायेदं ददामीति यद्दास्यन्भवति तदनुदिशति ब्रह्मणे ।

ब्रह्मन्मनस्ते ददामि तदनेन निष्क्रीणामीति मन्त्रेण ब्रह्मसदन आसीनाय ब्रह्मणे मन एव दत्त्वा दत्तस्य मनसो ब्रह्मणः सकाशान्भोचनायेदं ददामीत्यनेन तस्य निष्क-