पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८२ सत्याषाढविरचितं श्रौतसूत्रं- [१० दशमप्रमे-

ता रूपेण वो रूपमभ्यैमीति हिरण्यमाज्यं चाऽऽदायाभ्येति।

ता दक्षिणा अभ्येति अभिमुखो मूत्वा ता दक्षिणा एतीत्यर्थः ।

तुथो वो विश्ववेदा विभजत्विति मध्यमवक्रम्य विभजति ।

तासां मध्यमवक्रम्य मध्ये प्रविश्य विमजति । कृष्णाजिनेन व्युत्रास्येत्यापस्तम्बः । पुच्छेनेति बौधायनः । यथा चतुर्धा विभक्ता भवेयुस्तथा कृष्णाजिनस्य पुच्छेन व्युत्रा- सयतीत्यर्थः।

द्वादश द्वादश मध्यतःकारिभ्यः षट् षडर्षिभ्यश्चतस्रश्चतस्रस्तृतीयिभ्यस्तिस्रस्तिस्रः पादिभ्यः।

मध्यतःकारिभ्योऽ? भागो येषामस्तीत्यधिनः । एवं द्वितीयिपादिशब्दयोरपि द्रष्टव्यम् । अत्राऽऽपस्तम्बः-यावदध्वर्यवे ददाति तस्याध प्रतिप्रस्थाने तृतीय नेष्ट्र चतुर्थमुन्नेत्र एतेनैवेतरेषां दानमुक्तमिति ।

एवꣳ शेषम् ।

शेषशब्देन मन्यादिकमनआदिकं चोच्यते । इदं चैतेषां सत्त्वे द्रष्टव्यम् । अन. आदीनां विमागसंभवे गोवद्विमागः । असमवे. मौल्यद्वारेति केचित् । उपभोगमात्रे. गेति:युक्तम् ।

होताऽध्वर्युब्रह्मोद्गाता च मध्यतःकारिणः ।

सदस्यव्यावृत्तय एतेषामुत्कीर्तनम् । ननु यथाश्रद्धं सदस्यायेतिवक्ष्यमाणपृथवि. धानादेव सिद्ध एतत्परित्यागार्थतत्सूत्रप्रणयनं व्यर्थमिति चेत्सत्यं, यथाश्रद्धं सद- स्यायेत्येतत्सूत्रस्य दक्षिणाधिक्यशङ्काव्यावृत्त्यर्थत्वेन सार्थक्यात् ।

मैत्रावरुणः प्रतिप्रस्थाता ब्राह्मणाच्छꣳसी प्रस्तोता चार्धिनोऽच्छावाको नेष्टाऽऽग्नीध्रः प्रतिहर्ता च तृतीयिनः शेषाः पादिनः ।

के तेऽधिनस्तृतीयिनः पादिन इत्याकाङ्क्षायामिदं सूत्रम् । शेषशब्देन ग्रावस्तो. मुन्नेतृपोतृसुब्रह्मण्या उच्यन्ते । पादशब्देन चतुर्थोऽश उच्यते ।

एतत्ते अग्ने राध ऐति सोमच्युतमिति विभक्ता आनयति ।

विभक्ता दक्षिणाः । अन्यत्स्पष्टम् । आनयनप्रयोजनमाह-

अग्रेण प्राग्वꣳशमपरेण सदो दक्षिणेनाग्नीध्रीयमन्तरेण चात्वालोत्करावुदीचीरुत्सृजति ।

उत्सर्गोऽत्र प्रयोजनम् । उदीचीः, उदङ्मुखाः।

ऋतस्य पथा प्रेत चन्द्रदक्षिणा इति गच्छन्तीरनुमन्त्रयते।।

गच्छन्तीः । अन्यत्स्पष्टम् ।