पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

E४०पटल:]: गोपीनाथमट्टकृतज्योसाव्याख्यासमेतम् । २००१ पेण शतधा. विभज्य संमवात् । शक्ती सत्यां हिरण्यवासोन्यजानां तावतामेव दानं विभागानुरोधेन । यदि तावतामलाभस्तदा यावल्लब्धं तावदेव देयम् । अवशिष्ट- संख्यापूरणार्थ मौल्यद्वारा विभजनीयमिति केचित् । पूर्ववदुपमोगमात्रेणेत्येव युक्तम् ।

अनो रथोऽधीवासोऽश्वः पुरुषो हस्ती वाऽनियुक्तानि ।

अनियुक्तानीति पदच्छेदः । अनः शकटं, रथः प्रसिद्धः । अधीवासः शयनास- नार्थो बहुमूल्यश्चर्मपटः । पुरुषो दासः । इदमुपलक्षणं दास्याः । अत्र वाकारश्रवणे- नैतेषां समुच्चयामावः सूच्यते । अत्र कन्यादानमपि यस्मै कस्मैचित्विज उक्तं धर्मः सूत्रे-वे यज्ञतश्र ऋत्विजे प्रतिपादयेदिति । अष्टौ विवाहा धर्मसूत्र उकास्तत्राय तृतीयो विवाहप्रकार उक्तः । देवैईष्टे विवाहे यज्ञतन्त्रे वितत ऋत्विने कर्म कुर्वते यस्मै कस्मैचित्सपिण्डस्वासप्रवरत्वे परिहाप्य कन्यां दद्यात् । एष एव देवो विवाह इत्यर्थः । देवे यज्ञ ऋत्विजे प्रतिपादयेदित्येतावतैव सिद्धौ तत्रशन्दस्तावन्महतः सौमिककर्मण एवात्र ग्रहणं नैष्टिकपाशुकयोरल्पयोरिति सूचयति । प्रतिपादयेदिति वचनात् , मत्विन इत्येकवचनेनैकस्मा एव प्रतिपादनाच्च नेयं तत्रसंबन्धिदक्षिणा । एतच प्रतिपादनं प्रधानदक्षिणादानानन्तरम् । तथा च बौधायन:-दक्षिणामु नीय- मानास्वन्तत्विने दद्यादिति । दद्यात्प्रतिपादयेदित्यर्थः । अत्र प्रतिग्रहे मन्त्रविशेष उक्तस्तेनैव गृह्य-अथ यदि दक्षिणाभिः सह दत्ता स्यात्ता प्रतिगृह्णीयात्प्रजापतिः स्त्रियां यश इत्येतामिः षड्मिरनुछन्दसमिति । दक्षिणाभिः सह दत्तेतिषचनमपि कन्याप्रतिपादनस्य यागदक्षिणात्वं नेत्यत्र लिङ्गम् । अयं च प्रतिग्रहमन्त्रोऽस्माकमप्य. विरुद्धः । नप तान्त्रीणां दक्षिणानां दर्शयतीतिसूत्रविरोध' इति वाच्यम् । एतस्य प्रतिग्रहमन्त्रविशेषस्य दक्षिणाप्रतिग्रहप्रकरणे सूत्रकारेणापठितस्य सान्त्रीणां दक्षिणाना दर्शयतीतिसूत्रविषयकत्वासंभवेन विरोधाभावात् । दीक्षितो न ददातीतिनिषेधो यज्ञत- त्रान्तर्गतकन्याप्रतिपादने न प्रवर्तते वचनबलात् । प्रतिपादनं तु कृत्स्नकन्याप्रतिपाद- मोक्तविधिना कार्यम् । कन्याप्रतिपादनाङ्गभूतहिरण्यादिदानस्य तु · ददातिविहितत्वा- निषेधोऽस्त्येव । पुण्याहवाचनादिकं कन्यावरणं वाग्दानं मधुपर्कश्च निवर्तते । एतस्य विवाहविशेषस्य फलविशेषोऽप्याश्वलायनेनोक्तः-ऋत्विजे वितते कर्मणि. .दद्यादलं. कृत्य स देवो दशावरान्दश परान्पुरुषान्पुनात्युमयत इति । इदं प्रसन्नादागतमुक्कं प्रकृतमनुसरामः । अव्यादिविषये विशेष आपस्तम्बनोक्तः-अविमजां गामश्वं पुरुषं हस्तिनं वासोऽनो रथमोदनं मन्थं माषांस्तिलान्त्रीहीन्यवान्गर्दममित्यधिकान्यनियता. नीति । पूर्वाभिर्दक्षिणाभिः सह विकल्पशङ्कानिवृत्त्यर्थमुक्तमधिकानीति । नित्यवत्समु- चयशङ्कानिवृत्त्यर्थमुक्तमनियतानीति । एतानि द्रव्याणि यथोक्ताम्यो दक्षिणाभ्योऽधि- कानि शक्ती सत्यां ददाति । एतावतां दाने ऋतुर्गुणवत्तरो भवतीति भावः । -