पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८० सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रो- सप्तमे पादे स्वदाने सर्वमविशेषात् , यस्य वा प्रभुः स्यादितरस्योशक्यत्वादिति । न भूमिः स्यात्सर्वान्प्रत्यविशिष्टत्वादिति च । अग्निष्टोमेऽपि सर्वस्वदानं पक्षे विहितं तत्र पितापुत्रादिकं सर्वमपि देयमविशेषापितुरात्मीयत्वेन स्वशब्दवाच्यत्वात् । पुत्रादिषु तु सत्तथैव स्वत्वं, धनेऽपि स्वत्वस्य सत्वात्तदपि देयम् । एवं चैतेषु विशेषाभावात्सर्व देय. मिति पूर्वपक्षसूत्रार्थः । यस्य पदार्थस्य स्वत्वरूपपदार्थस्य षष्ठयों निरूपितत्वं यन्नि. रूपितं प्रभुत्वं त्यागसामर्थ्य स पदार्थोऽत्र स्वशब्देनोच्यते । तच धनमेव तस्यैव दान- योग्यत्वाद्धनेतरपदार्थस्याशक्यत्वादातुमशक्यत्वादिति सिद्धान्तसूत्रार्थः । स्वशब्देन भूमेरपि दानयोग्यत्वात्तस्या अपि दानप्रसक्तावाह-न भूमिर्देया सर्वान्स्वीयपुरुषान्प्र. स्यविशिष्टत्वात्। न केवलं स्वस्यैवेति सार्वभौमस्य न महापृथ्वीस्वामित्वं किंतु देशपालन करादानं च शासनं चेति राज्यतया संबन्धः। अतोऽसी महापृथिवीमाण्डलिकोऽपि मण्डलं न दद्यादित्युत्तरसूत्रार्थः । वक्ष्यति च यदन्यद्भूमेः पुरुषेभ्यश्चेति । अत्राऽऽप- स्तम्बो विशेषमाह-ज्येष्ठं वा पुत्रमपभज्य सर्ववेदसं ददातीति । अस्यार्थः-सर्ववेदसं ददज्ज्येष्ठाय पुत्राय भागं दत्त्वा शेषं ददातीति । अन्यश्च विशेषस्तेनोक्तः-अश्व- सरं सहस्र सर्ववेदसे च ददातीति । गर्दमावउवाया जातोऽश्वतरः सर्वत्र देयः । साहस्रसर्ववेदसयोस्तु नित्यम् । तथा च ब्राह्मणम्-तस्मार्हिष्यनवकृप्तः सर्ववेदसे वा सहस्त्रे वाऽवकृप्त इति । अत्र सहनशतादिदक्षिणापक्षा एव मुख्याः सप्ता- दयोऽर्वाचीनसंख्याः पक्षा गौणा अनाढ्यपराः । शक्तस्य गौणपक्षाश्रयणे दोषः । तथा च वाधूलः-दशगुः सप्तगुना सोमेन यजते शतगुः सप्तगुनेष्ट्वा पापीयान्भवतीति । द्वादशशतं दक्षिणा नित्यः कल्पः प्रकृताविति सूत्रान्तरे । आथर्वणे वैतानसूत्रेऽपि- अल्पस्व एकगुना यनेतेति । अल्पस्वोऽल्पधनः । सप्त गा दत्त्वा शतसहस्रद्वादशशता न्यतमसंख्यापूर्त्यर्थं मौल्यं दद्यादिति केचित् । वस्तुतस्तु सप्तापि सर्वेभ्य ऋत्विग्भ्यः कालसंकेतव्यवस्थाकृतोपभोगमात्रमुद्दिश्य देयाः । ते तु हिंसां वर्जयित्वा परस्परकाल- संकेतव्यवस्थाकृतोपभोगमात्रेण विभज्य गृह्णीयुः, इष्टिसंबन्धिगोप्रतिग्रहवत् । एवमेक- विंशतिचतुर्विंशतिषष्टिपक्षेऽपि द्रष्टव्यम् । शतपक्षसहस्रदक्षिणापक्षसर्ववेदसपक्षापरिमि. तपक्षेषु विभागोपपत्तिः स्वरूपत एवोपपद्यते । अपरिमितशब्दार्थों यावता साम्यमुप- पद्येत तावानेव कल्पनीयः । चन्द्रमसि मम भोगाय भवेति प्रतिग्रहमन्त्राद्धनयाचनमपि कर्तव्यमृत्विग्भ्यो दानार्थम् । अत्र विशेष उक्त आपस्तम्बेन-सन्नेषु नाराशरसेषु दक्षिणा ददाति बह्वपरिमितमिति । बहु प्रभूतं तच्चापरिमितमनवधृतपरिमाणं धनमिति शेषः ।

मन्थौदनतिलमाषा हिरण्यं वासोऽविरजा च नियुक्तान्येतानि भवन्ति ।

नियुक्तान्येतानि लब्धं शक्यानि । मन्थौदननिलमाषा इत्यत्र समासकरणाद्ययेतेषां दानं तदा चतुर्णीमेव दानं नैकस्येति सूच्यते । इदं मन्यौदनतिलमाषाणां दानं स्वरू. -