पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

M १०७८. सत्यापाढविरचितं श्रौतसूत्र- [१० वशमप्रभे-

अच्छिन्नस्य ते रयिपते सुवीर्यस्येन्द्रेण सयुजो वयमिति शुक्रꣳ हूयमानमन्वारभते ।

शुक्र शुक्रग्रहम् ।

यत्रास्मै चमसमाहरति तं भक्षयति ।

यत्रेतियच्छब्दादुत्तरत्र तच्छब्दाध्याहारोऽर्थात् । यत्रास्मै चमसमाहरति तदा त मक्षयतीति । यत्र यस्मिन्काले । अस्मै, इति पञ्चम्यर्थे चतुर्थी । अस्माद्वषट्कर्तुः सकाशात्स्वसमीपं चमतं स्वचमसं चमसाध्वर्युर्मक्षणार्थमाहरति यदा तदा तं चमसं भक्षयति महीत्यादिविधिना हिन्व म इत्यन्तेन । वसुमद्गणस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो मक्षयामीति प्रातःस- वने भक्षमन्त्रः । नराशसपीतस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो मक्षयामीति प्रातःसवने नाराशंसभक्षणे मन्त्रः। अन्ति- मनाराशंसवर्जमाप्यायनं, समाख्यानिमित्तक एव मक्षो नान्यः । यत्र प्रतिमक्षितुरमाव. स्तत्रोपाह्वानमध्वर्योः । रुद्रवद्गणस्य सोमदेवते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छ. न्दस इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो मक्षयामोति माध्यंदिने सक्ने भक्षणमन्त्रः । नराशसपीतस्य सोमदेवते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसः पितृपी. तस्य मधुमत उपहूतस्योपहूतो भक्षयामीति माध्यंदिने सवने नाराशंप्समक्षणमन्त्रः । आदित्यवद्गणस्य सोमदेवते मतिविदस्तृतीयस्य सवनस्य जगतीछन्दस इन्द्रपीतस्य मधुमत उपहूतस्योपहतो मक्षयामीति तृतीयसवने भक्षणमन्त्रः । नराशसपीतस्य सोमदेवते मतिविदस्तृतीयस्य सवनस्य जगतीछन्दसः पितृपीतस्य मधुमत उपहूतस्यो. पहूतो भक्षयामीति तृतीयसवने नाराशंसमक्षमन्त्रः । इत्येवंप्रकारेण तं तं स्वचमसं भक्षयतीत्यर्थः । चमसे विद्यमानं सोममित्यर्थश्चमसशब्दस्य । तस्यैव तच्छब्देन परामर्शः । भक्षणसमभिव्याहारात् ।

यथेतरे चमसाः।

इतरे चमसा ब्रह्मादिभिर्भक्षिता भवन्ति यथा येन प्रकारेण तथा तं चमसं मक्षयतीति पूर्वेणान्वयः ।

गृहपते यजेत्युच्यमाने होतरेतद्यजेति संप्रेष्यति स्वयं वा निषद्य यजति ।

उच्यमान इतिवर्तमानप्रत्ययादेव तद्वचनकाल एव प्रैषोऽयं, स्वयमेव वा निषय स्वदेश एव निषद्य प्राङ्मुख उपविश्य यजति । निषदनमुपवेशनं, यजमानस्योपविष्ट.

  • ङ. ज. स. स. पुस्तकेषु अन्वारभेतेति पाठः ।