पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४५०पटलः] • गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०७७

इन्द्रियावन्तो वनामह इति सर्वत्रानुषजति ।

सर्वेषु शस्त्रानुमन्त्रणेषु चेत्यर्थः । ननु अत्र स्तोत्रानुमन्त्रणमन्त्रस्यैकत्वासत्रानुषनार्थ पूर्ववेत्येवं वक्तव्यं सर्ववेत्येवं तु न वक्तव्यम् । मन्त्रबाहुल्याभावात् । प्रथमस्तोत्रानु- मन्त्रणवद्वितीयादिष्वपि अनुषङ्गो भविष्यति एवं शस्त्रानुमत्रणेष्वपि द्वितीयादिषु । तथा च किमर्थं सर्वत्रेत्येवं वचनमिति चेत्सत्यं, प्रथमद्वितीयादिष्वप्यनुषङ्ग इत्येतन्निय- मामावज्ञापनार्थत्वेनैतादृशवचनवैयर्थ्याभावात् । कुरैतज्ज्ञापनस्य फलमिति चत्प्रातःसव. मंसंबन्धिधिष्ण्यविहरणव्याघारणयोरनुषजस्वीकारेऽपि म माध्यंदिनसवनतृतीयसवनसं. बन्धिधिष्ण्यविहरणव्याधारणयोरनुषक्तस्वीकारावश्यकतेति । एवमन्यत्रापि द्रष्टव्यम् । एतेनैवेदमपि ज्ञायते यत्रानुषङ्गवचनं मास्ति सत्रानुषतः कृताकृत इति ।

भूरसि श्रेष्ठो रश्मीनामित्यैन्द्रवायवे हूयमान आदित्यमुपतिष्ठते । ।

हूयमान इति वर्तमानशानच्प्रत्ययाद्धोमे वर्तमान आदित्योपस्थानम् । धरसीत्यस्यापि ऐन्द्रवायव एव विनियोगः । आचार्येणाऽऽपस्तम्बबौधायनाम्यां मैत्रावरुणमहे विनि. योगमि(इ)व विनियोगानुक्तेः । अपानं में पाहीति मन्त्रान्तो भवति ।

यो न इन्द्रवायू इत्यैन्द्रवायवे हुतेऽङ्गुष्ठमवबाधेत । यदि श्रेयसा स्पर्धेताङ्गुष्ठेनाङ्गुलीं यदि पापीयसा ।

। यो न इन्द्रवायू इत्यत्र सावतोऽशस्य निराकासस्वासंभवादभिदासतीत्यादिरनु. पङ्ग आर्थिकः । अत एवावचनम् । एवं यो नो मित्रावरुणावित्यत्रापि । यो नोऽश्वि- नावित्यत्र पठित एव । पुनरैन्द्रवायवग्रहणं यो न इन्द्रवायू इत्यारभ्य यदि पापीयसे. त्यन्तं नैमित्तिक न तु यो न इन्द्रवायू इत्यैन्द्रवायवे हुत इत्येतदन्तं मिन्नमेव सूत्र कृत्वाऽऽदित्यमुपतिष्ठत इति पूर्वसूत्रादनुवर्त्य क्रियानिराकाझं कर्तव्यं, तथा प होमोत्तरं यो न इन्द्रवायू इत्यनेनाऽऽदित्योपस्थानं नित्यमेवावाधनमात्रं नैमित्तिकं तच तूष्णीमेव मन्त्रानुपदेशादिति शङ्कां व्यावर्तयितुम् । अवबाधनं निपीडनम् । अवशब्दोऽवनमनार्थः । यदीत्यनेन नैमित्तिकत्वं प्रदर्श्यते । श्रेयसा धनादिना श्रेष्ठेन । स्पर्धा संघर्षों द्वेष इति यावत् । पापीयसा दारियादिनाऽस्पेन ।

यो नो मित्रावरुणाविति मैत्रावरुणे यो नोऽश्विनावित्याश्विने ।

हुतेऽङ्गुल्याऽङ्गुष्ठमवबाधेत यदि श्रेयसा स्पर्धेताङ्गुष्ठेनाङ्गुली यदि पापीयसेति पूर्व- सूत्रादुभयत्रानुवर्तते । ।

  • ढ. संज्ञकसूत्रपुस्तकेऽमुषजाति न विद्यते ।

१ क. छ. 'र्वत्र स।