पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७६ सत्याषाढविरचितं श्रौतसूत्रं- [१० दशमप्रश्न- बहिष्पवमानालम्मरूपत्वमनुसंदधन्नन्नात्रालम्भं करोतीति यावत् । स्तूयमानमितिवर्त- माननिर्देशगतस्तवनकर्तृनुद्गातृप्रस्तोतुप्रतिहनारमत इति गम्यते । तत्तद्भक्त्युच्चारण- काले तत्तद्भक्तिसमाप्तिपर्यन्तं तं तमन्वारभत इति । निधनात्मकमक्तौ तु सर्वानवश्य- मेकदैव येन केनाप्युपायेनान्वारमते । सहस्ता एकत्र संयोज्या यजमानस्यैकदा- न्वारम्भसिद्धये । उत्तरत्र मध्यमायां वेति वैकल्पिकमध्यमस्तोत्रीयाग्रहणादत्रोपस्थित. स्वेन प्रथमाया एव ग्रहणमिति गम्यते । स्तूयमानमिति बहिष्पवमानविशेषणम् । एतस्य मन्त्रस्यान्वारोह इति नाम । तथा चात्र श्रुतिः-यो वै पवमानानामन्त्रारो- हानित्यादि।

मध्यमायां स्तोत्रीयायां वा ।

स्तूयमानपदं लिङ्गविपरिणामेनानुवर्तते । एवमन्वारभत इति पदमपि । तथा चायमन्वयो भवति-मध्यमायां स्तोत्रीयाया बहिष्पवमानमर्नुलक्षयन्नुदानूनालभत इति । अन्वारोहं जपतीत्येवाऽऽपस्तम्बः ।

स्तुतस्य स्तुतमसीति सर्वाणि स्तोत्राणि स्तुतꣳ स्तुतमनुमन्त्रयते।

सर्वाणि स्तोत्राण्यनुमन्यते स्तुतं स्तुतमित्यन्वयः । स्तुतं स्तुतमितिवचनं स्तूयमा- नशब्दाधिकारनिवृत्त्यर्थम् । सर्वाणि स्तोत्राणि स्तुतान्यनुमन्त्रयत इत्येवमुच्यमाने सर्वस्तोत्रसमाप्त्यनन्तरमनुमन्त्रणं सर्वस्तोत्राणां सकृदेवेत्यपि शङ्कितं स्यात्तद्वारणा. थैवमुक्तम् । स्तुत: स्तुतः स्तोत्रमनुमन्त्रयत इत्येतावतैव सेत्स्यति सत्येववचनस्यैवं व्याख्यानं तु पूर्वसूत्रव्याख्यावन्न स्तूयमानान्वारम्भाधिकारलामार्थम् । तेन स्तुतस्य स्तुतमसीत्यनेन सर्वाणि स्तूयमानान्यनुलक्षयत्नुगातृनन्वारमत इति पूर्वोक्तमत्रापि सिद्धं भवति । स चान्वारम्भः प्रथमायां मध्यमायां वा न संभवति । पूर्वेणावरुद्धत्वात् । तत्र पवमानसंबन्धी इनोऽसि गायत्रछन्दा इत्यन्वारम्मः । प्रथमायामिति पक्षे प्रथ- मायां न संभवत्ययमन्वारम्भः । मध्यमायामिति पक्षे मध्यमायामपि न तदितरा- स्वृक्षु यस्यां कस्यांचिच्यन्वारम्भ इति । स्तूयमानमितिवर्तमानशानच्प्रत्यया- स्पतिस्तोत्रम् । स्तुतं स्तुतमनुमश्चयत इत्यत्रापि स्तुतस्य स्तुतमसोत्यस्यानुवृत्तिरर्थत एवं सिद्धा । अनुमन्त्रणस्य मन्त्रोच्चारणप्रधानत्वादितरमन्त्रस्थात्रानुपदेशादिति । अथवा स्तोत्रेषु पवमानानां ग्रहणं भवतीति शङ्कानिराकरणार्थ वा ।

शस्त्रस्य शस्त्रमसीति सर्वाणि शस्त्राणि ।

शस्त्रं शस्त्रमनुमन्त्रयत इति योग्यतया शेषो ज्ञेयः ।

  • अस्य सूत्रपुस्तकेयनुपलम्भादिदं सूत्रं विद्यते वा न वेति विवेचनी पम् ।