पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 [४० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०७३ दक्षिणादाच् , इत्यानन्तता । दक्षिणं दक्षिणायमित्यर्थः । अञ्जलिं करोतीत्यनुवर्तते । न्यच्चीति बौधायनः । शकटान्यश्चीत्यर्थः ।

इदमहं निर्वरुणस्य पाशादित्युपनिष्क्रामति ।

हविर्धानाहहिरिति शेषोऽर्थात् ।

सुवरभिविख्येषमिति सर्वं यज्ञमनुवीक्षते वैश्वानरं ज्योतिरित्याहवनीयं परेक्षते ।

सर्वयज्ञानुवीक्षणाहवनीयपरेक्षणे दर्शपूर्णमासवदित्येतावतैव सिद्धे गुरुभूतमेवं वचन स्वशाखायामेतयोब्राह्मणाभावेऽपि शाखान्तर एतद्राह्मणं स्पष्टमेवेतिज्ञापनार्थम् । फलं ज्ञानावश्यकता । यज्ञशब्देन विहारोऽत्र ग्राह्यः। तथा चाऽऽपस्तम्बः-सर्व विहारम- नुवीक्षत इति । तत्रैव तिष्ठन्निति परेत्यस्यार्थः । तथा च तिष्ठता कर्तव्यं यदीक्षणं तत्परेक्षणमित्यर्थो भवति ।

अग्ने व्रतपत इत्यवान्तरदीक्षां विसृजते ।

संतरां मेखलां समायच्छते संतरां मुष्टी कुरुत इत्याद्या अवान्तरधर्माः पूर्वं ये स्वीकृतास्तान्वक्ष्यमाणरीत्या परित्यजेदित्यर्थः । अयमेवावान्तरदीक्षाविसर्गो नाम । यथायथं नौ व्रतपते व्रतिनोत्रतानीति मन्त्रान्तः । तत्प्रकारमाह-

वितरां मेखलाꣳ समायच्छते वितरां मुष्टी कुरुते ।

वितरां शिथिला यथा भवति तथा समायच्छते समाकर्षेन्मेखलामित्यर्थः । वितरां शिथिले मुष्टी कुरुते । संतरामितिवद्वितरामिति व्याख्येयम् ।

स्वाहा यज्ञं वाचि वाते विसृज इति मुष्टी वाचं च विसर्जयित्वा यथासुखमत ऊर्ध्वꣳ हस्ताभ्यां चरति।

स्वाहा यज्ञमित्यनन्तरमितिशब्दाध्याहारेण च्छेदः । वाचि वाते विसृज इति भिन्न एव मन्त्रः । तथा च प्रथमेन तु मुष्टिविसर्गः । द्वितीयेन वाग्विसर्गः । चकारो मुष्टि- विसर्गेण समुच्चयार्थः । स्वाहा यज्ञमिति मन्त्रः स्वाहा यज्ञं मनसेत्यारम्य वातादारम इत्यन्तः । एतादृशमर्थमापस्तम्ब आह-वितरां मेखलां विस्र सते वितरां मुष्टी कर्ष- तेऽत्र दण्डप्रदानमेके समामनन्ति स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीम्या५ स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इति मुष्टी विसृजते स्वाहा वाचि वाते विसृन इति वाचमिति । अथवैकेतिकरणात्स्वाहा यज्ञं वाचि वाते विसृन इत्येक एव मन्त्रः । । अस्मिन्पक्षे मुष्टिद्वयविसर्गे वाग्विसर्गे च मन्त्र आवर्तनीयः । द्रव्यपृथक्त्वात् । या नित्यं संध्ययोनियम्यते वाक्तामतः परं विसृजते । यथासुखं स्वेच्छम् । अत ऊर्ध्व- मतोऽवान्तरदीक्षाविसर्गाद मारभ्येत्यर्थः । अन्यत्स्पष्टम् । इदं सूत्रमवान्तरदीक्षावि-