पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७२ सत्यापाढविरचितं श्रौतसूत्र- [१० दशमप्रश्ने- तस्या मुखेऽग्रभागे भवः शालामुखीयस्तम् । अन्यत्स्पष्टम् । रौद्रमनीक५ सर्वत्रानुष- जतीति पूर्ववद्व्याख्येयम् । इत्योकोषाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विसाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिमू- बाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप. शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमप्र- नस्य तृतीयः पटलः ॥ ३॥

10.4 अथ दशमप्रश्ने चतुर्थः पटलः ।

यत्र हविर्धाने ब्रह्मा राजानं प्रपादयति तस्मिकाले पूर्वेण द्वारेण हविर्धाने प्रविश्यैष वो देव सवितः सोम इति शकटे राजानमासन्नमभिमन्त्रयते ।

यत्र यस्मिन्काले तस्मिन्काले तस्मिन्नेव काले प्रपादनं, राजानं प्रत्यादाय सोमो जिगाति गातुविदिति सौम्यर्चाऽपरेण द्वारेण हविर्धाने प्रविश्यावर्यवे राजानं प्रदा. येतिब्रह्मसूत्रोक्तस्योपलक्षणम् । आसन्नमध्वर्युणा । अनासन्नस्य राज्ञोऽभिमन्त्रणं व्याव- तयितुमासन्नमिति । शकटग्रहणं मण्डपव्यावृत्त्यर्थम् । शकटयोत्तरतः प्राङ्मुखः सन्ने. वाभिमन्त्रणं कुर्यात् । न चात्रोदङ्मुखताऽपि । प्राङ्मुखतयैव शास्त्राविरोधपूर्वकासन्ना- भिमन्त्रणरूपकार्यनिर्वाह उदङ्मुखतायाः शास्त्रविरुद्धाया नियुक्तिकत्वात् । राज्ञो वामतः करणमेव शास्त्रविरोधोऽत्र । उपगा इति मन्त्रान्तः ।

इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावर्तते ।

एतच्च शकटस्योत्तरत एव राज्ञः पृष्ठतः करणस्य परिहर्तुमशक्यत्वान्न दोषः । सह रायस्पोषेणेति मन्त्रान्तः।

नमो देवेभ्य इति प्राचीनमञ्जलिं करोति स्वधा पितृभ्य इति दक्षिणा ।

प्राचीनं प्रागप्रमञ्जलिम् । अग्रेण जुहूपभृतौ देवेभ्यः प्राचीनमञ्जलिं करोतीति प्रकृती जुहूपभृतावप्रेण देवेभ्यः करोतीति दर्शनात् । अत्रापि अग्रेण देवेभ्य इति अध्याहा- यम् । अर्थात्सोममग्रेण स्वधा पितृभ्य इत्यनेन मन्त्रेण, दक्षिणा दक्षिणमित्यर्थः । ३ १ क. त्वादोषः ।