पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७१ [३४० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

सम्राडसि कृशानुरित्याहवनीयं परिषद्योसि पवमान इति यत्र बहिष्पवमानेन स्तुवते प्रतक्वाऽसि नभस्वानिति चात्वालमसंमृष्टोऽसि हव्यसूद इति पशुश्रपणमृतधामासि सुवर्ज्योतिरित्यौदुम्बरीं ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्मसदनमजोऽस्येकपादिति प्राजिहितं गार्हपत्यमहिरसि बुध्निय इति शालामुखीयं कव्योऽसि कव्यवाहन इति दक्षिणाग्निꣳ समूह्योऽसि विश्वव्यचा इत्युत्करꣳ समुद्रोऽसि विश्वभरा इति सदः सदस्योऽसि मलिम्लुच इति सदस्यायतनꣳ रौद्रमनीकꣳ सर्वत्रानुषजति ॥ ११ ॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने तृतीयः पटलः।

आहवनीय औत्तरवेदिकः । शालामुखीयस्याग्रे पृथग्ग्रहणात् । यत्र बहिष्पवमा- नेन स्तुवत इत्यनन्तरं यत्तदोनित्यसंबन्धादुपतिष्ठत इतिसकर्मकधातुयोगाद्वितीयान्तो देशविशेषणत्वात्पुंलिङ्गस्तच्छब्दोऽध्याहार्यः । ननु परिषद्योऽसि पवमान इत्यास्ताव- मित्येव लाघवाद्वक्तव्यं नचैतावताऽऽस्तावशब्दार्थप्रसिद्धिः कथमिति चेत् । यत्र बहि- पवमानेन स्तुवत इत्याध्वर्यवसूत्रादेव सिद्धे व्यर्थमेतदिति चेत्सत्यम् । पूर्वोपात्तास्ताव: शब्दार्थतोऽत्राऽऽस्तावशब्दार्थे किंचिदधिकं वैलक्षण्यमस्तीति ज्ञापनार्थत्वेनैतस्योपादा: नस्य सार्थक्यात् । तथा हि पूर्वत्राऽऽस्तावशब्देनैक एव पदार्थः सर्वक्रतुषु समानः । अग्निष्टोमाघेकाहेषु चात्वालसमीपप्रदेशरूप एवाहीनेषु द्वादशाहादिषु प्रथमे सौत्येऽहनि चात्वालसमीपप्रदेशरूपः, द्वितीयादिषु सौत्याहेषु सदोरूप इत्येकैक एव । उपस्थान- विषयेणेतेनाऽऽस्तावशब्देन तु द्वादशाहाद्यहीनऋतुषु चात्वालसदआत्मकं देशद्वय- मपि ग्राह्यं न तु चात्वाल एव । अन्यथोपस्थानजन्यसंस्कारश्चात्वालसमीपप्रदेश एव स्यात्सदसि न स्यात् । इष्टश्च संस्कार उभयत्रापीतीष्टं वैलक्षण्यं ज्ञेयम् । देशभेदात्प रिषद्योऽसि पवमान इत्यस्याऽऽवृत्तिः। प्रथमे सौत्येऽहनि चात्वाले समीपप्रदेशे बहि- प्पवमानस्तवनमितरेष्वहःसु सदस्येवेति । अयमर्थो लाट्यानद्राह्यायणाभ्यां प्रदर्शितः- अहीनबहिष्पवमानः सदसि स्तुवीरन्प्रथमादहोऽन्यत्रेति । चात्वालः प्रसिद्धः । पशोः श्रपणं यस्मिन्देशे स देशः पशुश्रपणः । प्राजिहितशब्दार्थो वसतीवरीपरिहरणसूत्रे प्रदर्शितः । गार्हपत्यग्रहणं प्रानिहितशब्दः पुराणगार्हपत्यपर एवेति प्रदर्शयितुम् । अन्यथा कस्येयं संज्ञेति शङ्काया निराकरणं न स्यात् । तथा च यत्र यत्र प्राजिहि- तशब्दस्तत्र तत्र पुराणगाहपत्य एव ग्राह्य इति सिद्धे भवति । शाला प्राग्वंशाख्या -