पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ST १०७० सत्याषाढविरचितं श्रौतसूत्रं- [ १० दशमप्रश्ने-

आराग्रामवान्तरदीक्षामुपेयादिति ब्राह्मणव्याख्यातानि काम्यानि व्रतपरिमाणानि तेषां याथाकामी ।

आराग्रामवान्तरदीक्षामुपेयाद्यः कामयेतास्मिन्मे लोकेऽधुकर स्यादित्येकं काम्यं व्रतपरिमाणम् । परोवरीयसीमवान्तरदीक्षामुपेयायः कामयेतामुष्मिन्मे लोकेऽर्धक५ स्यादित्येकम् । एकमग्रेऽथ द्वावथ त्रीनथ चतुर एषा वा आराग्रावान्तरदीक्षाऽस्मिन्ने- वास्मै लोकेऽधुकं भवतीति, चतुरोऽग्रेऽथ त्रीनथ. द्वावथै कमेषा वै परोवरीयस्यवान्तरदी. क्षाऽमुष्मिन्नेवास्मै लोकेऽधुकं भवतीति क्रमेण तयोः स्वरूपं ब्राह्मणे प्रदर्शितम् । तत्राऽऽद्याऽऽराग्राऽवान्तरदीक्षा द्वितीया परोवरीयती । बलीवईप्रतोदनं लौहमारं तद्वदल्पमेयं मुखं यस्याः साऽऽराग्रा । परोवरीय इत्यत्र परःशब्देनात्र श्रेष्ठत्वादुप- क्रमो विवक्षितः । उपक्रमे वरीयोऽधिकं यस्याः सा परोवरीयसी । अर्धकं समृद्धि- शीलम् । इदमेतयोः फलम् । एतद्दीक्षासंबन्ध्यौपसदव्रतपरिमाणद्वयं काम्यम् । वत्स- स्यैकः स्तनो भागी हि सोऽथैकर स्तनं व्रतमुपैत्यथ द्वावथ त्रीनथ चतुर इति एकं व्रतम् । एतस्य संज्ञा फलं चोक्तं ब्राह्मण एव-एतद्वै क्षुरपवि नाम व्रतं येन प्रजातान्भ्रातृव्यान्नुदते प्रतिजनिष्यमाणानथो कनीयसैव भूय उपैतीति । चतुरोऽग्रे स्तनान्त्रतमुपैत्यथ श्रीनथ द्वावथैकमित्येतदेकम् । एतस्यापि संज्ञा फलं चोक्तं ब्राह्मण एव-एतद्वै सुजयनं नाम व्रतं तपस्य५ सुवर्यमथो प्रैव जायते प्रजया पशु. भिरिति । एतद्वयं चापि काम्यम् । एतानि चत्वारि ब्राह्मणेन व्याख्यातानि काम्यानि कामसंपादकानि व्रतस्य परिमाणानि क्रमभेदेन व्रतस्वरूपाणि तेषां यथाकामस्तद्रतप- रिमाणमङ्गी कुर्यादित्यर्थः ।

प्र तद्विष्णुः स्तवते वीर्यायेति संमिताद्धविर्धानात्प्रागुपनिष्क्रम्य तैरेव मन्त्रैर्यथान्युप्तं धिष्णियानुपतिष्ठते ।

संमिताद्विमितात् । अनेन ल्यपेदं ज्ञायते- एतावत्पर्यन्तं हविर्धान एवोप- विष्टो भवेत् , औदुम्बर्यभिहोमसंबन्धित्यागस्तत्रैवोपविष्टेन कार्य इति । मन्त्रैरध्वर्युणा निवपनं कृतं तैरेत्र मन्त्रैरित्यर्थः । यथान्युप्तं न्युप्तमनतिक्रम्य यथान्युप्तं धिष्णियानाय. तनानि उपतिष्ठत इत्यर्थः । अनेनैच्छिकत्वं व्यावय॑ते । यदध्वर्युणा न्युप्तं तत्तदनन्तर- मेवोपतिष्ठत इत्येतादृशार्थप्रापणार्थं वा । उपतिष्ठत इत्येतावतैव समन्त्रकत्वं सिद्धमु- पस्थानस्य विना मन्त्रैरसंभवात् । ते च मन्त्रा धिष्णियप्रकरणोपस्थितत्वाद्विभूरसी. त्याचा एव । तथा चार्थादेव विभूरसीत्यादीनां पत्राणां प्राप्ताविदं वचनमेतानेवोप- स्थानान्व्याघारणाश्चैके समामनन्तीत्यापस्तम्बोक्तं पाक्षिकत्वमुपस्थानस्य व्यावर्तयि- तुम् । एवशब्दस्योपतिष्ठत इत्य नन्तरमन्वयः । Konk । १ च. छ. 'क्रमो व। २ ङ, ज, झ. अ. ढ. 'त्प्राङप ।