पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १०६८ सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमप्रश्ने- उभयोः समुच्चयः। +अवजिघ्रणेच्छायां तु नैतद्भक्षणम् । अत्र कात्यायनो विशेषमाह तानूनप्त्रं प्रकृत्य-अपिधायामृन्मयेनापराह्ने व्रतमिश्र दीक्षिताय प्रयच्छति बहुषु गृहपतय इति । अमृन्मयेन कांस्याद्यन्यतमेन व्रतमिश्रं यथा भवति तथा कृत्वा दीक्षि. ताय प्रयच्छतीत्यर्थः । अत्र दीक्षितग्रहणात्पत्न्या व्यावृत्तिः । सत्रे सर्वेषामपि दीक्षि. तत्त्वात्सर्वेभ्योऽपि दानप्राप्तावाह-बहुषु गृहपतय इति ।

अग्ने व्रतपत इत्यवान्तरदीक्षामुपैति ।

सह नौ व्रतपते वतिनोर्बतानीति मन्त्रान्तः । अप्सु दीक्षाप्रमृतिप्रायणीयादिवसप्र- याणात्प्राग्विहिता वर्तमाना धर्मा दीक्षाशब्दवाच्यास्तेषां विसर्गः । अवभृथे तन्मध्ये संतरां मेखलामित्यारभ्य येऽधिका धर्मास्ते मध्य उत्पन्नत्वादे(द)वान्तरदीक्षाशब्दवा. च्यास्तानुपैति स्वी करोतीति सामान्यप्रतिज्ञेयम् ।

संतरां मेखलाꣳ समायच्छते संतरां मुष्टी कुरुते तप्तव्रतो भवति मदन्तीभिरुदकार्थान्कुरुते॥१०॥

संतरां संहततरां मेखलां गाढतरामिति तदर्थः । मदन्तीरुपस्पृश्य गाढतरं मुष्टिमे- खलं कुरुत इति कात्यायनसूत्रात् । सम्यक्, आयच्छत आश्लेषयति । संतरा मुष्टी कुरुत इत्यत्र संतरा संतरे इत्यर्थः । सुपां सुलुगिति सूत्रेण द्विवचनविभक्तेराकारः । संतरामिति पाठ एकवचनं छान्दसं द्रष्टव्यम् । संतरामित्यव्ययं वा । तप्तवतो भवती. त्यत्र वचनादेशेषु व्रतेषु किंचिच्छीतमेव व्रतं ग्राह्यमिति गम्यते । मदन्त्यस्तप्ता आप- स्ताभिरेवोदकार्थानुदककार्याणि लौकिकानि शौचाचमनादीनि लौकिकीमिर्गार्हपत्ये तप्तामिः कर्मान्तर्गतानि कुरुत इत्यर्थः । मदन्तीमिर्जियत इतिश्रुतिगतो मदन्तीमि. मर्जिनस्य विधिरुपलक्षणमिति भावः । आस्मानमेव दीक्षया पाति प्रनामवान्तरदीक्षया संतरां मेखला समायच्छते प्रजा ह्यात्मनोऽन्तरतरा तप्तवतो भवति मदन्तीभिर्जियत इति ब्राह्मणेऽवान्तरदीक्षा जारक्षणं फलं ज्ञेयम् । संतरां मुष्टी कुरुत इति शाखान्तरीयो विधिः ।

व्याख्यातं पाणिप्रक्षालनमाप्यायनं निह्नवनं च।

मदन्तीभिः पाणीन्प्रक्षालयन्त इत्येतेन सूत्रेण पाणिप्रक्षालनं व्याख्यातमुक्तम् । अश्शुर शुरिति त५ सर्वे सहिरण्यैः पाणिभिराप्याययन्तीत्यनेनाऽऽप्यायनं व्याख्या- तम् । प्रत्युपनद्धेऽप उपस्पृश्येष्टा राय इति प्रस्तरे निह्नवते सव्यानीचः पाणी. स्कृत्वा दक्षिणानुत्तानानित्यनेन निसवनं व्याख्यातम् । उदकोपस्पर्शस्य निहवनाङ्ग- त्वात्सोऽपि भवति । + अवघ्राणेच्छायामिति वक्तुं युक्तम् ।