पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[श्तृ०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १०६७. ग्रहणं श्लेषणमत्र । उपसर्गक्रिययोर्मध्य एक्शब्दस्य पाठादियं श्रुतिरेवानर्वितेत्यनु- भीयते । एतावानेव मन्त्रः । अध्वर्यवाशक्तवा इति अध्वर्यु प्रति प्रश्नः । आशकामे त्यध्वर्युणोत्तरे दत्ते कथमाशकतेति पुनः प्रश्नः । एतौ द्वौ प्रश्नावध्वर्युसूषोपात्तौ गिरी जयणमिति पक्षे नान्यदा।

उदायुषेत्युत्तिष्ठति ।

अमृता अन्विति मन्त्रान्तः ।

उर्वन्तरिक्षमिति गच्छति ।

अन्विहीति मन्त्रान्तः।

शकटं प्राप्याध्वर्यवे राजानं प्रददाति।

शकटं प्राप्यतिवचनादिदं ज्ञायतेऽध्वर्युणा कृष्णानिनास्तरणे कृते तत्रैव स्थितायाव- येवे राज्ञः प्रदान न तु तस्मात्स्वसमीपमागतायेति । उत्थानदेशाकिंचिदेशमतिक्रम्य गच्छति आस्तरणोत्तरं ततोऽपि तूष्णीगेव गच्छति यावच्छकटमिति च । साऽसि सुब्रह्मण्य इत्यस्य मन्त्रस्य नपः सुब्रह्मण्याबाने । तथा चाऽऽपस्तम्बः-सर्वासु सुब्रह्म ण्यास सुब्रह्मण्यमन्वारभ्य यजमानो जपति साऽसि सुब्रह्मण्ये तस्यास्ते पृथिवी पादः साऽसि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्ष पादः साऽसि सुब्रह्मण्ये तस्यास्ते द्यौः पादः साऽसि सुब्रह्मण्ये तस्यास्ते दिशः पादः परोरजास्ते पञ्चमः पादः सा न इषमूर्जे धुक्ष तेज इन्द्रियं ब्रह्मवर्चसमन्नाद्यमिति । सर्वासु कालभेदाद्भिन्नासु सुब्रह्मण्योमित्याह याजमाने साऽसि मुब्रह्मण्य इति यजमानो जपतीत्यर्थः । यथारूपमितर इत्यनेन सूत्रकृताऽपि विनियोग उक्तोऽस्ति । प्रत्यगाशिषो मन्त्रानकर्मकरणाञ्जपतीतिदर्शपूर्णमासयाजमान- सूत्राद्याजमानत्वमुक्तं भवति । लिङ्गात्सुब्रह्मण्याहाने विनियोगः सिध्यति ।

नमो मित्रस्य वरुणस्य चक्षस इति प्राग्वꣳशमोह्यमानं प्रतीक्षते ।

प्राग्वंशं प्रति ओह्यमानं प्राप्यमाणं राजानमीक्षत आमिमुख्येन । प्रतिशब्दादामिन पुख्यं लभ्यते । सूर्याय शसतेति मन्त्रान्तः ।

अनु मे दीक्षां दीक्षापतिर्मन्यतामिति तानूनप्रꣳ समवमृशति ।

संशब्द ऋविग्भिः सहवाभिमर्थिः । अवेत्युपसर्गः स्पर्शनकालेऽवनमनार्थः । मा धा इति मन्त्रान्तः ।

तत्त्रिषु व्रतेषु प्रतिपन्नो भक्षयति यदध्वर्युर्नावजिघ्रति ।

त्रिषु औपसदेषु व्रतेषु प्रतिपन्नः प्रतिपत्ति कुर्वाणो विमज्य विमज्य निक्षिप्य मक्ष- पति यदि अध्वयोरवजिघ्रणेच्छाया अभावः । अस्मिन्पक्षे प्रतिव्रतमावृत्तिर्मनस्य । १च, छ, 'ज्य नि।