पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. -१०६६ सत्यापाढविरचितं श्रौतसूत्र- [१ दशमप्र- जातप्रयोजनत्वादिति यावत् । तच्च प्रयोजनं दण्डेन दीक्षयतीत्येतद्विधिसिद्धं तस्य जातत्वान्मत्रावरुणस्य दण्डप्रदानं प्रतिपत्तिरेवेति प्रथमसूत्रार्थः । मैत्रावरुणस्य दण्ड- प्रदान प्रतिपत्तिर्न भवति किं तु अर्थकम प्रयोजकमेव कर्म दृष्टार्थमेव कर्मेति यावत् । अत्र हेतुमाह-कर्तृसंयोगादिति । स्थित्वा प्रैषानुवचनकळ प्रशास्त्रा संयोगात् । संयोगः संबन्धः । स्थित्वा प्रैषानुवचने कुर्वत आलम्बनं भवन्दृष्टार्थ एव दण्डो भवति । प्राग्वत्संयवनार्थत्ववत् । इदमपि मैत्रावरुणार्थदण्डदानं प्रयोजक दण्डस्येति द्वितीयसूत्रार्थः । कर्भयुक्तमालम्बनरूपं कर्म तद्युक्तं च दर्शनात् , दण्डो त्रैषानन्वाहेति दर्शनात् । दृश्यते ज्ञायतेऽनेनेति वर्शनं विधिवाक्यं तस्मात्तु कर्मयुक्तं भवतीति तृतीयसूत्रार्थः ।

श्वः सुत्यायां वा क्रियमाणायाम् ।

इदमपि यजमानकर्तृकमेव । अविक्षुर इत्यनेनैव प्रतिग्रहो मैत्रावरुणस्य । अग्नीषो- मीयदिवससंबन्ध्यनुष्ठानमारभ्य मैत्रावरुणकार्यसमयात्प्राग्यत्र कुत्रचिद्दण्डदानं कर्तव्य- मित्यनेन विधीयते ।

वयः सुपर्णा इति प्रत्यपोर्णुते शिरोऽग्रेऽनुपूर्वमितराण्यङ्गानि ।

प्रत्यपोर्णत उद्धाटयति । अय इति क्रमार्थम् । अनुपूर्वमनुक्रमम् । तेन स्कन्ध- प्रभृत्यवयवा ये वासता संहादितास्ते क्रमेणोद्धाटनीया इत्यर्थः । अत्र शिरःशब्देन मुख्यया वृत्त्या शिरस एव ग्रहणं तस्यैव च्छादनयोग्यत्वान्न तु गोण्या वृत्त्या मुरव- नेत्रनासिकानामपि । छादनासंभवात्, अनुष्ठानविरुद्धत्वाच्च । नाहि मुखे नेत्रद्वये च च्छादिते मन्त्रपठनमीक्षणं च कर्तुं शक्यं, नेवद्वयान्तर्गतत्त्वाकेवलनासिकाया अपि च्छादनं कर्तुं न शक्यम् । पादयोरपि च्छादनं गमनाविरुद्धत्वान कर्तुं शक्यम् । तथा चैतव्यनिरिक्तान्येवाकानीतरशब्देन विवक्षितानि । यजमानोऽद्भिरम्युक्ष्य कौत्साय वा परिकर्मिणे वोष्णीषं प्रयच्छतीति बौधायनः । दण्डनदाने मन्त्र उक्त आपस्तम्बेन दीक्षितदण्डं च मैत्रावरुणाय प्रयच्छति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रयच्छाम्यवको विधुरो व्यासमिति । बद्धानिति मन्त्रान्तः ।

मित्रो न एहि सुमित्रधा इत्यूरावासन्नꣳ राजानमुपस्वज उपैव गृह्णीते ।

अध्वर्गुणेन्द्रस्योरुमाविशेत्यूरावासन्न राजनमुपस्वने वक्षस्येवोपगृहीत इत्यर्थः । स्वजधातुरालिङ्गने तच्चाऽऽलिङ्गन वक्षसीति लोकप्रसिद्धमेव । उपस्वज इति सप्तम्यन्तं पदं वक्षोवाचकम् । उपस्वन इत्यत्रोपेत्युपसर्गोऽतिशयार्थः । अतिशयेन स्वजनं वक्ष. सैव । एवकार उपस्वज इत्यनन्तरमन्वेति । अत्राप्युपेत्युपसर्गः सम्यक् श्लेषणार्थः । च. ज.अ.म.ट, जत ।