पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[३४०पटलः] गोपीनाथभट्टकृतज्योत्स्नाण्याख्यासमेतम् । १०६५ यहव्यहचतुरहशब्दैर्ग्रहणं यहव्यहदीक्षापक्षाणाम् । इतरेषां पञ्चाहादीनामपरिमित- शब्देन । द्वादशाहदीक्षापक्षस्तु एकद्वित्रिचतुरहदीक्षापक्षतोऽपि मुख्यः । अपरिमित- दीक्षापक्षस्तु द्वादशाहदीक्षापक्षतोऽपि तपस आधिक्यान्मुख्य इति व्यवस्था द्रष्टव्या । यदि त्वेका दीक्षा द्वे तिनश्चतस्रोऽपरिमिता वेत्यनेनैव सिद्ध इदं वचनं प्रायणीया- प्रभृति आतिथ्यासंबन्ध्याप्यायननिवनान्तमुपसदिवस एव न तु दीक्षादिवत इति- प्रदर्शनार्थम् । अहं तदस्मि आजुह्वान इत्येतो मन्त्री पुरस्तात्प्रायणीयाया जपति । प्रत्यगाशिषो मन्त्रानिति सूत्रात् । आपस्तम्बन तूपस्थानमुक्तं तथा वाऽपि विनियोगः । एकनिष इत्यस्य सोमक्रयण्याः पदानुनिक्रमणेषु जपः । यथारूपमितर इति सूत्रात् । अच्छिद्रा उपहोमाश्च लिङ्गान्नियम्यन्त इति भरद्वानसूत्रात् । एकनिषे विष्णुस्त्वाऽन्वेतु • होत्राभ्यो विष्णुस्त्वाऽन्वेत्विति निष्क्रम्पमाणेषु यजमानोऽनुवर्तयित्वा(4) सखायः सप्तय० मायोष्टा इति सप्तमे पदे जपतीत्यापस्तम्बसूत्राच सप्तमे पद इत्यत्र वचनवि- परिणामेन निष्क्रम्यमाणपदं सप्तम्येकवचनान्तमनुवर्तते । प्रत्यगाशिषो मन्त्रानकर्मका- (क)रणाजपतीत्यनेन सूत्रकृता यानमानत्वं प्रदर्शितम् । आद्यानां पण्णां विष्णुस्त्वाऽन्वे- विति लिङ्गादनुवर्तने विनियोगः । अन्तिमस्य तु प्रत्यगाशीष्ट्वात्सूत्रकृद्रीत्याऽपि जप एव । अयं च विनियोगः स्पष्टतया सूत्रेऽनुक्तस्वात्कृताकृतः ।

प्रत्तं पदं तोते राय इति पत्न्यै प्रयच्छति तव ते राय इति वा ।

इदं सूत्र तृतीय पल्यै प्रयच्छति तत्सा गृहेषु निधत्त इति सूत्र एव प्रसङ्गा याख्यातम् ।

क्रीयमाणस्य राज्ञो दक्षिणत आस्ते।

अन्यत्र कर्मसु सानिध्यमात्रं न दक्षिणतउपवेशननियम इति अत्र वचनाज्ञायते । एवं यत्र यत्र वचनं तत्रापि द्रष्टव्यं सर्वत्र ।

क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति ।

क्रोते वा राजन्याहवनीये यूपाइति५ हुत्वा यूपं छिनत्तीत्यस्मिन्सूत्रे कालनिर्णयः प्रदर्शित एवास्ति । अनेन दण्डदानेन निरूढपशुतोऽतिदेशप्राप्ताऽध्वर्युकर्तृकता मैत्रावरुणप्रैषकालता वाऽनेन बाध्यते. अविक्षुरो विखुरो भूयासमिति मैत्रावरुणः प्रति- गृह्णाति । इदं च दण्डस्य दानं दण्डप्रतिपत्तिर्न भवति किं तु चतुर्थ्या मैत्रावरुण- स्याभिप्रेतत्वेन प्रधानमेव । दण्डमिति तु द्वितीयाऽनीप्सितकर्मणि । अवलम्बनार्थ- स्वेन च स्वार्थत्वमेव दानस्येति । तथा च चतुर्थाध्याये द्वितीयपादे जैमिनिः-प्रास- नवन्मत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् । अर्थकर्म वा कर्तृसंयोगात्प्राग्वत् । कर्म- युक्तं च दर्शनादिति । प्रासनवत्कृष्णविषाणापासनवत् । कृतार्थत्वात्कृतप्रयोजनत्वा- 42