पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६४ सत्यापाढविरचितं श्रौतसूत्रं- [१०दशमप्रश्ने- अथायेनं यान्तं व्रतनवेलोपाधि गच्छत्युत्तरतोऽरणी निधाय दक्षिणतः परिश्रित्य व्रत. यति तूष्णीं तृणोदकायावस्यतीति । द्वैधे-अथायेनं प्रयान्तं वतनवेलोपाधि गच्छ. तीति मथित्वाऽग्नोम्विहृत्य व्रतयेदिति बौधायन उत्तरतोऽरणी निधाय दक्षिणतः परि- श्रित्य व्रतयेदिति शालीकिरिति । स एव-अथ यत्रावस्यन्भवति तदवस्यतीति । स एव-अथ यत्र यक्ष्यमाणो भवति तदवस्यत्येदमगन्म देवयजनं पृथिव्या इत्यान्तादनुवाक. स्येति । अस्मिन्प्रयाणेऽन्य विशेषमाह भरद्वाजः-अभ्यः पवतेऽपोऽभिपवत इत्यहरहः प्रस्थितो जपतीति । अहरहरिति दीर्घावाभिप्रायेण वीप्सा । दिशोऽमिसंपवत इत्यन्तः ।

अत्र देवयजनाध्यवसानमेके समामनन्ति ।

य इहाध्यवस्येत्स श्यायात् । य आदितो न स प्रयाति योऽन्यत्र दीक्षित्वा ततो देवयजनमध्यवस्येत्त एव प्रयायात् । यस्त्वादावेव प्रयात्यध्यवासितदेवयजनस्तत्र दीक्षितो न ततः प्रयाति । देवयजनाध्यवसानार्थत्वात्प्रयाणस्य तस्य च कृतत्वादिति भावः । बौधायनस्तु देवयजनदोक्षायामपि तत्र योगक्षेमाक्लप्तौ देवयजनान्तराध्यवसा- नार्थ प्रयाणमनुमन्यते । तथा च तत्सूत्रम्-अथातः प्रयाणस्यैव मीमांसा दीक्षित वाऽयोगक्षेमे विन्दत्यन्यत्र वा देवयजनाहीक्षित इति । पूर्वत्र यद्देवयजनाध्यवसानमुक्तं तत्तत्र न कार्य किंतु अत्रास्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः । अर्थात्प्र- याणोत्तरमेव देवयजनाध्यवसानमित्यस्मिन्नर्थे सिद्धे वचनमत्र देवयजनाध्यवसाने कर्तव्य एवैते प्रयाणधर्माः स्युनं पूर्वत्रेतिज्ञापनार्थम् ।

प्राग्वꣳशस्य मध्यमꣳ स्थूणाराजमालभ्यैनं मन्त्रं जपति ।

अस्मिन्काले देवयजनाध्यवसानेऽयं विशेषोऽनेनोच्यते । स्थूणानां राति स्थूणा- राजस्तं स्थूणानां मध्ये श्रेष्ठां स्थूणामित्यर्थः । राजशब्दः त्रैष्ठ्यार्थवाची । राजाहः- सस्लिम्यष्टजितिसमासान्तष्टच्प्रत्ययः । मेढीमूतस्थूणानां बहुत्वान्मध्यममिति विशेष- णम् । एनमिति मन्त्रविशेषणमपवृत्ते दीक्षापरिमाणेऽपेत वीतेति देवयजनमध्यवस्य- तीति वक्ष्यमाण आग्निके देवयजनाध्यवसानेऽयं धर्मो न भवतीतिप्रदर्शनार्थम् । जपता. हचर्यादेव मन्त्ररूपविशेष्यलामे मन्त्रग्रहणमयं मन्त्रो देवयजनाध्यवसानार्थ इत्यनुसंधान जपात्पूर्व कर्तव्यमित्येतादृशार्थज्ञापनार्थम् ।

एकरात्रं दीक्षितो राजानं क्रीणाति द्वयहे त्र्यहे चतुरहेऽपरिमिते वा।

यहेऽतीत इत्यर्थः । एवं व्यहादिषु । चतुरहातिरिक्ताः पञ्चाहादयोऽपरिमितश- ब्देन संग्राह्याः । व्यहव्यहचतुरहपक्षास्तु मुख्याः । अमुख्या इतर इति प्रदर्शयितुं १च. ज, झ, न. रात्रि दी।