पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[श्तृ०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । २०६३

यद्यपो नाव्यास्तरत्यरणी रथं चाऽऽधाय सह तरति ।

नावा तार्या नाव्या अपो यदि तरति अरणी रथं चाऽऽदाय यस्यां नावि स्वयं तरति तस्यामेवाऽऽधाय तत्सहित एव तरति । आदायेति पाठोऽपपाठ एव । सर्वथा रथेन रथाङ्गेन वा वियोगो नैव कर्तव्य इति । तथा चाऽऽपस्तम्बः-अरणीम्यामर- णीमिरित्येके रथेन रथाङ्कन वा न विप्रच्छिद्येतेति । अरणीशब्दोऽत्र द्वितीया- बहुवचनान्तः।

यद्यपोऽनाव्या रथेन तरति हरति चैनाः।

अनाव्या नावा तार्या यदि न भवन्ति तदा रथेनैव तरति हरति चारणीः स्वयमेव। अत्रापि अरणारधरथाङ्गानां न विप्रच्छेदः ।

यद्यवगाहेत देवीराप इत्यवगाहेत ।

यदि पथ्यापः पादाम्यामेव तरणीयाः स्युस्तदा मलावलोडन प्राप्तं तज्जलप्रवेश- समये देवीरापो अपांनपादित्यादावेव कुर्यात्ततो गच्छेत् । क्रमिषमिति मन्त्रान्तः ।

अच्छिन्नं तन्तुं पृथिव्या अनुगेषमपाꣳ सेतुरसीति लोष्टं विमृद्गन्नापाराद्गन्तोस्तरति ।

लोष्ट मृत्पिण्डस्तं विमृगविमर्दयन्पारपर्यन्तं गमनार्थ चूर्णीकुबैस्तरतीत्यर्थः । छोट- मिति जातावेकवचनं, तेनान्येषां प्रयोजनसत्त्वेऽन्यान्यपि ग्राह्याणीत्युक्तं भवति । विमर्दनं सातत्येन क्षेपणार्थम् । विशब्दः संततक्षेपणानुगुण्यार्थः । सेतुमेव कृत्या. स्थेतीति ब्राह्मणम् ।

पृथिव्याः संभवेति ॥ ९॥ सिकता लोष्टान्वा मध्ये तीरयोश्च न्यस्यति पृथिव्या संभवेति वा ।

सिकता मृत्पांसवः । लोष्टा मृत्पिण्डाः। मध्ये मध्यभागे तीरयोश्च न्यस्यति क्षिपति सिकता मृपिण्डत्रयं वा स्थानत्रये प्रक्षिपतीत्यर्थः । स्थानभेदान्मन्त्रावृत्तिः । पुनरवन्तरप्राप्तौ देवीराप इत्यवगाहादीनामावृत्तिः । तया च मरद्वाजः-मन्त्रव्यवाये मन्त्राम्यासो द्रव्यपृथक्त्वेऽर्थपृथक्त्वे देशपथक्त्वे च यथा कण्डूयनस्वप्ननदीतरणाभि- वर्षणामध्यप्रतिमन्त्रणानौति । जैमिनिमते तु नाऽऽवृत्तिः । तथा चैकादशाध्याये चतुर्थ- तु पादे तत्सूत्रम्-स्वमनदीतरणामिवर्षणामध्यप्रतिमन्त्रणेषु चैवमिति । व्याख्यातमेतत्सू. त्रमबद्धं मन इत्यमेध्यं दृष्ट्वा जपतीतिसूत्रव्याख्यावसरे । सविसर्गाविसर्गकृतो मन्त्रभेदः । एतेषां प्रयाणधर्माणां दीक्षितधर्माधिकारे वचनाददीक्षितप्रयाणे नेष्यन्ते । बौधायन:- सरस(स)नन्ति व्रते संबध्नन्ति व्रतदुघयोर्वत्सावादधाति यदाधेयं भवतीति । स एव- । १६.ज. ह.न,द, चाऽऽदाय ।