पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६२ सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमप्रभे- एतेनाम्यस्मै दानमपि सूचितं भवति । तथा च बौधायनः-अथ येयं नष्टा तां यदि विन्देयुः कथं स्यादित्येषाऽनुदिष्टैव स्यादित्येतदेकं कर्मणोऽन्ते श्रेयांसं प्रतिग्रहोतारं लमेत दक्षिणाभिरेवनां सह दद्यादित्येतदेकं वायव्ययैवैनया यजेतेत्येतदपरमिति । कर्म- णोऽन्ते समाप्तौ श्रेयांस श्रेष्ठं प्रतिग्रहीतारं लभेत तस्मा एनामनुदिष्टां दक्षिणाभिः सह दद्यादित्यर्थः । दक्षिणाभिरिति बहुवचनात्रिप्रभृतिविजातिव्यक्तयो देया इति गम्यते | कलौ गोपशोनिषेधाद्वायव्यायागो न भवति । सनीहारप्रस्थापनान्ते दिवसपा रिसमाप्तिः ।

यदि प्रयायात्पृथगरणीष्वग्नीन्समारोप्य रथेन प्रयाति ।

अथ यदि अत्र प्रयायात्प्रयाणं कुर्यात्पृथगरणीष्वनीन्समारोप्य रथेन प्रयाति गच्छति । अत्र प्रयाणविधानेने ज्ञायते गृहदीक्षापक्षोऽप्यस्तीति । तत्र समारोपण- विधिः प्रागेव दर्शितः । ननु स्थविधानार्थ रथेन प्रयातीत्येतावदेव वक्तव्यं पृथगर- णीष्वनीन्समारोप्येति न वक्तव्यम् । पूर्वोक्तसमारोपणविधिनैव तसिद्धेः । तथा च पृथगरणीष्वनीन्समारोप्येतिवचनं व्यर्थमिति चेत्सत्यम् । वास्तोष्पतिहोमादिपरिसंख्या- यत्वेन वैयभिावात् । नित्यधायौँ द्वौ सम्यावसथ्यपक्षे चतुरो वाऽऽह्वनीयस्य नित्य- धार्यत्वपक्षे त्रीपञ्च वा पृथगरणी द्वये द्वये मन्त्रेण समारोप्य गृह्याग्नौ सति तमपि समारोप्य प्रयाति । गार्हपत्यस्य संस्कृते अरण्यावन्येषां लौकिक्यः । पृथगितिवच- नात्प्रत्यग्नि द्वयोर्द्वयोररण्योराधानक्रमेण समारोपणम् । अरणीवचनमात्मसमारोपण- व्यावृत्त्यर्थम् । समारोपणमरण्योः प्रतपनेनानिनिवेशनं, तच्च निवेशन भावनामात्रेणा- ऽऽत्मन्यग्निग्रहणमिव । मुख्यस्यासमवात् । प्रत्यग्नि मन्त्रावृत्तिः । संशब्दो यथाऽरण्य- न्तर्गताग्न्यधिकरणीभूतावयवपर्यन्तं तपनं भवति तथाऽऽरोपणं कर्तव्यमिति सूचयति । समारोपविधानादेव प्रत्यक्षनयनं व्यावय॑ते । रथवचनं शकटव्यावृत्त्यर्थम् । पत्न्या:- वारब्धः समारोपणं कुर्यात् । सीमातिक्रमणे नयतिक्रमणे चान्वारम्भ उभयोः । अव- रोपेऽपि पल्यन्वारम्भः । समारोपणमारम्याऽऽवरोपमन्वारम्भ इति मुख्यः कल्पः । अयं ते योनिरिति समारोपणमन्त्रः ।

रथेऽविद्यमाने रथाङ्गेन सह ।

अविद्यमान इति पदच्छेदः । स्थाभावे रथाई किंचिद्गृहीत्वा तेन सह प्रयाति । सर्वभाण्डादिसामग्रीवाहनार्थ शकटानि अन्यानि मवन्त्येव । तत्र शकट एवं स्वस्या- प्यारोहणं प्राप्तं तदथेन बाध्यते । अथ वा रथेन प्रयातीत्यत्र रथेनेति तृतीयाऽध्या- हार्यतहशब्दयोगिस्वात्, न तु करणार्थिकति । अस्मिन्को स्येन सह गमनं पादा- म्यामेवोमयोः । रथेऽरणीनां स्थापनम् ।