पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्यापाढविरचितं श्रौतसूत्रं- [१०शमप्रभे- मन्यते न मा प्रत्याख्यास्यति तं प्रति प्रथमममिप्रहिणोतीति । तत्र प्रकारद्वयम् - अपरिमिते दीक्षाकल्पे द्वादशाह भिक्षाचर्यचरणम् , एकव्यादिदीक्षाकल्पे यथेच्छं कालानुरोधेन । एकदीक्षादिकल्पेऽपि भिक्षाचर्यचरणं कर्तव्यमेव । इदं मिक्षा- चर्यचरणं दक्षिणाद्यर्थम् । सया च भरद्वाजः-द्वादशाहं दक्षिणार्थ मिक्षेतेति । दव्य- सत्त्वेऽपि याच्ना नित्यैव । तथा च पष्ठाध्यायऽष्टमे पादे जैमिनिः--याच्नाक्रयणम- विद्यमाने लोकवत् । नियत वाऽर्थवत्वात्स्यादिति सूत्राभ्याम् । अधिकरणार्थस्तु सोम- कये प्रदर्शित एव । याचनीयानि द्रव्याण्याह-

हिरण्यं वासो गामश्वं छागं मेषं च यावत्परिमिता गाव एकैकमितरेषां जातीनाम् ।

यावद्यावत्पर्यन्त परिमिताः पर्याप्ताः संख्यापर्याप्तास्तावत्यो भवन्तीत्यर्थः । इतरेषा हिरण्यवासोश्वच्छागमेषाणाम् । इतरेषामिति जातिविशेषणमन्येऽपि पदार्थाः सन्ति तेषां चापि प्रतिमणमितिज्ञापनार्थम् । ते च हिरण्यं वासोऽविरजा च नियुक्तान्ये. तानि भवन्त्यनो रथोऽधीवासोऽश्वः पुरुषो हस्ती वाऽनियुक्तानीति वक्ष्यमाणा अव्य. मानोरपोधीवासपुरुषहस्त्यास्मका वक्ष्यमाणा अत्र गृह्यने ।

तानि प्रतिगृह्णाति चन्द्रमसीत्येतैर्यथारूपम् ।

चन्द्रमतीत्यादिभिः षड्मिः पपणा प्रतिग्रहणम् । सर्वेषां हिरण्यादीनां षण्णामुप- स्थिती सत्यामेवेतन मन्त्रेण तदन्तर्गततत्तलिङ्गकावयवोच्चारणकाले तत्तद्रव्यं प्रति- गृह्णीयात् । एतेषां मध्ये यस्य कस्यचिदनुपस्थिती तूष्णीमेव, सर्वद्रव्यप्रतिग्रहकरण- त्वस्यासंभवादित्याशङ्का निराकर्तुमेतौरतिवचनं, तेनैते मन्त्रा मिन्ना एव । यस्य द्रव्यस्यो. पस्थितिस्तत्प्रतिग्रहणकमन्नमात्रेण तावन्मात्रस्य प्रतिग्रहः । अवशिष्टानां लोप इति । अथवैरिति सनीहारपरामर्शकमाहृतानीति अध्यादृत्य तेनान्वयः । तानि हिरण्यादीनि । एतैर्मन्त्रैः । यथारूपं यथालिङ्गम् । चन्द्रमतीस्येतेन हिरण्यं, हेम चन्द्रं रुक्ममिति वैदिकनिघण्टौ चन्द्रशब्दस्य हिरण्यनाम पाठात् । चन्द्र हिरण्यमिति दर्शनाचन्द्र. शब्दो हिरण्यपरोऽत्र । वस्नमसीति वस्त्रम् । उस्लाऽसीत्युस्त्राम् । उस्त्रशब्दो गोवाची । स्रीलिङ्गनिर्देशास्त्रियामेव गवि मन्त्रः । पुंगोस्तु सृष्णीमेव प्रतिग्रहः । प्रकृत उहा- भावात् । अद्य मुत्यामित्यालेखन इति द्वादशाहे प्रकृतावूहदर्शनादुस्रोऽसीत्यूहो वा । एवमश्वच्छागभेषस्युपस्थितावूहोऽनूहो वेति पक्षद्वयं ज्ञेयम् । मम भोगाय भवे. त्यन्ता मन्त्राः।

देवः सवितेति सर्वत्रानुषजति ।

सर्वत्र सर्वेषु मन्त्रेष्वित्यर्थः । आयुषेति अनुषङ्गमत्रान्तः । इतरेषां द्रव्याणां मन्त्रानुपदेशात्तष्णीमेव प्रतिग्रहः । अथ याह्मणेनानादिष्टं भवति प्राजापत्यमसि मम