पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० १०५९ [श्तृ० पटः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् ।

दण्डान्न च्छिद्यते न प्रतिमुच्य कृष्णाजिनं चंक्रम्यते कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयत इत्युपयोगप्रभृतीन्येतानि व्रतानि भवन्ति ॥ ८॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने द्वितीयः पटलः ।

दण्डदानेन दण्डस्य कृष्णाजिनारोहणेन कृष्णाजिनस्य कृष्णविषाणायाः प्रदानेन वस्त्रप्रावरणेन वासउपयोगः । एतत्ममृतीनि एतदुत्तराणि । दण्डान्न च्छिद्यते कृष्णा- जिन प्रतिमुच्य न चंक्रम्यत इत्येतद्यं निषेधरूपम् । उत्तरं द्वयं विधिरूपम् । एतानि ब्रतानि तस्य तस्योपयोगमारम्य तत्तद्विसर्गपर्यन्तं भवन्ति । दण्डान्न च्छिद्यते दण्डान वियुज्यते । कृष्णाजिनं विसृज्य पादविक्षेपणमपि न कुर्यात् । कण्डूयनं कृष्ण- विषाणयैव कुन्नि नखादिभिः । देशवासला मुखमाच्छाथैव हास्यं कुर्यादित्यर्थः । इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विसाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाय- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- वाम्बुधिगतनिगूढार्थरत्नालाभकृतविद् जनसंताप. शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमन- श्नस्य द्वितीयः पटलः ॥ २ ॥

10.3 अथ दशमप्रश्ने तृतीयः पटलः ।

पूषा सन्येति सनीहारान्सꣳशास्ति ।

सनि याच्जालब्धं धनं तद्यस्माद्यस्माद्याचितं द्रव्यं ततस्ततो ये हरन्ति ते सनीहा- रास्तानसंशास्तेि प्रेरयति अमुं चामुं च गच्छतेति । अनेन ज्ञायते पूर्वमेव (क्रत्वर्थ दव्यं याचितं भवतीति । दीर्घश्छान्दसः । साहारजातिविषयविशेषप्रदर्शकं द्वैधसूत्र पशुपालमेष्याग्रुपकल्पनावसर उक्तमेव ।

द्वादशाहं भिक्षाचर्यं चरत्यपरिमिते दीक्षाकल्पे परिमिते याथाकामी ।

यदि असंभृतद्रव्यस्यायं निश्चयः क्रतुदीक्षामध्ये याच्याऽपि द्रव्यप्राप्तिर्भविष्य- स्येवेति तदाऽप्ययमेव प्रकारः । अत्र बौधायनः-अथ सनहारान्प्रहिणोति स यं १ क. च. छ.इ. "नि म।