पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५८ सत्यापाढविरचितं श्रौतसूत्रं- [१ दशमप्रने-

अग्ने त्वꣳ सुजागृहीति स्वप्स्यन्नाहवनीयमुपतिष्ठते ।

स्वप्स्यनस्वापं करिष्यन् । यत्र जागरणं नोक्तं तत्रायं नियमः । याज्ञिकमते पुनः पुनः प्रतिबुध्य स्वाप आहवनीयोपस्थानस्याऽऽवृत्तिः । मीमांसकमते सर्वां रात्रि स्वापमनुसंधायोपस्थानमिति कृत्वा नाऽऽवृत्तिः । एतत्करणी भूतमन्त्रविषयकत्वस्य तैरुतत्वान्मन्त्रमात्रनिवृत्तिपरमेवेतन्नतु तबङ्गपरमपीति यद्युच्यते तदा तन्मतेऽप्युपस्था- नस्याऽऽवृत्तिरस्त्येवेति द्रष्टव्यम् ।

विश्वे देवा अभि मामाऽववृत्रनित्युपपर्यावर्तते यद्यपपर्यावर्तेत ।

अपपर्यावर्तनमः 1. पृष्ठतः करणं, यदीत्यनेन समन्त्रकमुपपर्यावर्तनं कर्तव्यमिदमेव प्रायश्चित्तमिति बोध्यते । उपपर्यावर्तनमग्न्यभिमुखतया भवनम् । राधसेति मन्त्रान्तः ।

पुनर्मनः पुनरायुर्म आगात्पुनश्चक्षुः पुनः श्रोत्रं म आगात्पुनः प्राणः पुनराकूतं म आगात्पुनश्चित्तं पुनराधीतं म आगाद्वैश्वानरो मेऽदब्धस्तनूपा अन्तस्तिष्ठतु दुरितानि विश्वा । वैश्वानरो विश्वभृद्विश्वशंभूरवबाधतां दुरितानि विश्वा स नो दिवा स रिषः पातु नक्तं त्वमग्ने व्रतपा असीति प्रतिबुध्य जपति ।

या(द्यापपर्यावर्तेतेत्यस्यात्रान्वयो वा न पूर्वत्र । नक्तमित्येतदनन्तरमिति जपतीति अध्याहार्यम् । अस्मिन्पक्षे विश्वे देवा अभि मामाऽववृत्रन्नित्यन्तं समन्त्रकमुपपर्या- वर्तनं नित्यमेव । नच त्वमग्ने बतपा असीति प्रबुध्य जपतीत्यस्याप्यत्रैवान्वयोऽस्त्विति याच्यम् । समुच्चयोपकाराभावात् । पूर्वत्रान्वये तु लोप एव । प्रतिबुध्य जपतीतिवचनं प्रतिबोधाङ्गभूतो अप इति बोधनार्थ, तेन जागरणदिवसे स्वापाभावान्नायं रात्री जप इति सिद्धं भवति । प्रतीत्युपसर्गोऽत्यन्तजामद्दशायामेवायं जप इति सूचयितुम् । ईज्य इति मन्त्रान्तः ।

त्वमग्ने व्रतपा असीत्यनुब्रूयाद्यद्यदीक्षितवादं वदेत् ।

पुनस्त्वमग्ने व्रतपा असीतिवचनं पुनर्मन इत्यस्य वैष्णव्या ऋचश्व परिसंख्याना. र्थम् । अनुयादितिवचनाज्जपत्वामावः । तेन चातुःस्व-नियमोऽत्र सिद्धो भवति । म्लेच्छाभिभाषणविचंक्षणचनसितादिवर्जनं चादीक्षितवादः ।

मुष्टी वाचं च विसर्जयित्वा ।

स्वमग्ने व्रतपा असीत्यनुयादिति पूर्वेणान्वयः ।

दीक्षणीयाप्रभृतीयं वृत्तिः ।

यदि प्रमत्तो न्याहरेदित्यारम्य मुष्टी वाचं च विसर्जयित्वेत्येतदन्ता धर्मा वृत्ति- शब्देनोच्यन्ते । इयमेतदन्ता । १ क.. छ. श. म. तु, याप। २ क. छ, अ. द. राधी ।