पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२द्वि०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०५७ व्रतयित्वा तूष्णीं भूयो अतयतीति च । एतस्मिन्काले प्रतिप्रस्थाता पल्यै पात्रे निषिच्य ब्रतं प्रयच्छति तत्सा परिश्रित्य व्रतयति तूष्णी निर्णिज्य पात्रे प्रयच्छत इति च । ओदनानुव्रतपक्षे व्रतस्य संस्कारत्वेन तदर्थस्यौदनस्य परिषेकानुमन्त्रणे भवत एव संस्का. रत्वात्पाकदानहोमरूपस्वाभावाच भवत एवम(मा)पोशा(शा)नमपि भवत्येव ।

शिवाः पीता भवथ यज्ञियासो यूयमापोऽस्माकं योनावुदरे सुशेवाः । इरावतीः पुरुरूपा अनागसः शिवा नो भवथ पीतय इत्युदकं पिबति यदाऽपीतं भवति यदा पिपासति ।

यदोदकं पी(वी)त विशेषेणेत प्राप्त केनचिद्भक्त्याऽऽहत्य दत्तं तदप्रत्याख्येय. मिति कृत्वा स्वल्पमपि तावनेन मन्त्रेण पेयमेव । क्षीरं जलं च साम्बूलमप्रत्याख्येयमुच्यते । प्रत्याख्यानकृदेतेषां.पापीयाञ्जायते द्विजः ॥ इति स्मृतौ प्रत्याख्याने दोषश्रवणात् । यदाऽपोतं भवतीत्येव पाठ इत्याग्रहस्तदाऽ. पीतं संमुखमितं प्राप्त केनचिदानीतं पानार्थ भवतीत्यर्थो ज्ञेयः । दुग्धपानान्यवहितो- तरं जलपानस्य वैद्यकशास्त्रे निपिद्धत्वात्पिपासायां सत्यामपि कंचित्काल विरम्यैव जलं पेयमिति ज्ञेयम् । व्रतकालिकोदकपान एवेष मन्त्र इति न किंतु सर्वेष्वपि पानेषु इति । शिवाः पीता भवथ यूयमापोऽस्माकं योनावुरे सुशेवाः । इरावतीरनमीवा अनागसः शिवा नो भवथ जीवस इति व्रतयित्वा नाभिदेशमभिमृशत्यपश्च पीत्वा जपतीत्यापस्तम्बः । पत्नी तूष्णीमेव व्रतयति । तथा चाऽऽपस्तम्बः-- तूष्णी पत्नी स्व आयतने व्रतयतीति । तत्सा परिश्रित्य तूष्णीं व्रतयतीति बौधायनोऽपि । हस्तावनेजनमुदकपानमपि तत्संबन्धातूष्णीमेव ।

दक्षिणेनाऽऽहवनीयं प्राङ् शेते ।

प्राक्शिराः शेते।

दक्षिणेन पार्श्वेन।

शेत इत्यनुषज्यते ।

नोत्तानः शयीत ।

पष्टम् । न न्यडित्यप्यापस्तम्बः ।

नाग्नेः पराङ्पर्यावर्तेत ।

पराङ् अग्नेः सकाशात्पराङ्मुखतया पर्यावर्तनं न कुर्यात् । परिशब्दोऽत्र सामीप्यार्थे ।

  • अत्र प्रथमव्याख्यानुसारी यदा पीतमिति पाठो ज्ञेयः ।