पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- [२द्वि०पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । १०५५ तमभिधारयेद्यदि राजन्य ऐन्द्रं यदि श्यो वैश्वदेवमिति तत्संबन्धिब्राह्मणादिवाक्ये ब्राह्मणादिश्रवणं क्रतुर्यागान्तरं तत्प्रधानमुच्यते । कुतः-यज्ञसंयोगात्, क्षत्रियस्यैवेति सूत्रार्थः । विस्तरस्त्वाकरतो ज्ञेयः । पयआदीन्येतानि द्रव्याणि द्रव्यान्तरसद्भावेऽपि नित्यान्येव । तथा च षष्ठाध्यायेऽष्टमे पादे जैमिनिः- :-तथा भक्षप्रैषाच्छादनसंज्ञप्तहो- मद्वेषमिति । पयो व्रतं ब्राह्मणस्येति भक्षोदाहरणं, द्रव्यान्तरसद्भावेऽपि पयआदीन्येव व्रतेषु । अग्नीदनान्विहरेत्यादिः षोऽन्यतोऽवगमेऽपि प्रैषार्थस्य । अहतं वासः परिधत्त इति वासोन्तरसत्वेऽपि । यत्पशर्मायुमकृतेति संज्ञप्तहोमो मायुकरणाभावेऽपि । योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति · मन्त्रो द्वेष्यासद्भावेऽपीत्युदाहरणानि द्रष्ट- व्यानि । निमित्तानवणात्सत्यपि चान्यस्मिन्नियमादृष्टसिद्धेरनन्योपायत्वानियत- मिति । सूत्रे तथाशब्दो नियतं वाऽर्थवत्त्वात्स्यादितिपूर्वसूत्रगतनियतशब्दानुवृत्त्यर्थः । अन्यत्स्पष्टम् । आमिक्षा लौकिकेन दध्ना कर्तव्या कठिनत्वात् । पाकयज्ञस्य रूपमिति व्रतविषयकामिक्षाविषये पाकयज्ञसंस्तवादेवाऽऽमिक्षाधर्माणामप्राप्तिः । सर्ववर्णसाधारणं द्रव्यमाह-

एकदुग्धं यवागूं वैकदुग्धे ।

एकस्या वतदुहो दुग्धमेकदुग्धं तद्वतयेत् । एकस्या व्रतहो दुग्धे यवागू श्रपयित्वा तां वा व्रतयेत् । शाखान्तरीयोऽयं विधिः । स्पष्टमेतमाहाऽऽपस्तम्बः- यवागूमेकदुग्धं वा व्रतयेदित्यवर्णसंयोगेनैक उपदिशन्ति तद्वैतदेके पयो व्रतयन्ति तदु यथा न कुर्यात्पयस्येव यवागू श्रपयित्वा व्रतयेदिति । अत्रैकदुग्धग्रहणात्केवलपयोत्रते बहु दुग्धमपीण्यते यदि बढ्यस्तासामाशिरं कर्तव्यमिति । अत्रान्यमपि विशेषमाहाss: पस्तम्बः- यदि व्रतधुगल्पं दुहीतान्यां दह्याद्यद्यन्या न स्यादद्भिः ससृज्य श्रपये द्यदि पयो न स्यादप्स्वेव यवागू श्रपयित्वा व्रतयेदप्यन्ततः पिप्पलानि नत्वेव न व्रतयेदग्नि- होत्रस्याविच्छेदायतीति । पिप्पलानि फलानि वोहयो वा । सर्वाभावे फलान्यपि व्रतयेत्, न तु लोपयेत् , व्रतस्याग्निहोत्रसंस्तवादिति भावः । इतिः श्रुतिसूचनार्थः । तथाऽग्निहोत्रस्याविच्छेदायेति विज्ञायत इति भारद्वाजः ।

यदि दधीयादेतदस्मै दधि कुर्युः ।

दधीयाद्दधीच्छेत्, एतदेवाऽऽतच्यास्मै यजमानाय यजमानार्थ दधि कुर्युः । बहुव- चनं परिकस्विनामन्यतममाप्त्यर्थम् ।

यद्यन्नीयाद्धाना अस्मा अन्वावपेयुः सक्तून्वाऽस्मा अन्वावपेयुर्धृ(र्घृ)तं वाऽस्मा अन्वावपेयुः।

यदि तीक्ष्णवलोऽन्नमदनीयमिच्छेत्तदा तस्यानुपदासार्थ वतकाले व्रत एव धानाद्य- न्यतमद्रव्यं निवपेयुः प्रक्षिपेयुरित्यर्थः । एते समविकल्पा इतिप्रदर्शनार्थ याशब्दद्वयो- १