पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२द्वि०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०५३ तिनिरासार्थः । बौधायनोक्तोऽथोदितेषु नक्षत्रेषु यजमानः कृष्णाजिनमासज्य पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुषः सुवर्मतं कृणुतेति निर्वाचं विसृनत इति विशे- पोऽन्योऽत्र नियमेन स्वीकार्य इत्येवकारेण गम्यते । सूणीमित्यनेनोपस्थितस्य व्रतं कृणुतेत्यस्यैव निवृत्तिः । प्रथमदिने न बतं भवति तूष्णीमेव वाचं विसृजते व्याहृति- भिर्वेति वाधूलादिप्रोक्तपालिकष्यातिनिवृत्तिरेषकारेण । कृष्णामिनमोर्ध्वग्रावण शरीरं प्रावृत्य तदुक्तोऽयमपि विधिः स्वीकार्यः ।

यत्रैनं व्रतप्रदः संप्रेष्यति तस्मिन्काले वाचं यच्छति ।। ७ ।।

यत्र यस्मिन्काले दीक्षित याचं यच्छेति दीक्षितं संप्रेष्यति तस्मिन्नेव काले पन्यपि वाचं यच्छति । अत्र सस्मिन्नित्यस्याध्यवहितसमीपकाल इत्यर्थः । तथा च दीक्षित वाचं यच्छेत्येतत्प्रेषाव्यवाहतोत्सरकालिकपनिशब्दश्रवणमात्रे माते वाच यच्छति न तु पत्नि वाचं यच्छेतिश्रवणानन्तरं वाचं यच्छतीतिज्ञापनार्थम् । एतेने. दमपि अवगतं भवति यमपानस्य स्वप्रेषसमकोलमेव वाग्यमनमिति । तस्मिन्काल इत्यत्र कालवचनं देशव्यावृत्त्यर्थ, तेन यस्मिन्देशे प्रायशे प्रैषो दत्तस्तस्मिन्देश एवं वाग्यमनमिति नियमो व्यावृत्तो भवति । नन्विई सूत्रमेव व्यर्थ प्रेमसंबन्धिकाल- स्यापि पुरोदयमधिवृक्षसूर्ये च ब्रतप्रवः संप्रेष्यतीत्यनेनैव प्राप्तस्वादिति चेस्सत्यम् । कालान्तरमप्यत्रास्तीतिज्ञापनार्थत्वेन सार्थक्यात् । तच्च कालान्तरं बौघायनसूत्रे-अय पुरा नक्षत्राणामन्तर्धानात्सप्रेष्य वाचंयमयोचते दोहयत इति । अर्थोपसमिन्धनला- यामुत्तरेणाऽऽहवनीयं तिष्ठन्संप्रेषमाहाग्नोज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति संप्रेष्य वाचंयमयोबत दोहयत इति च । उपयुषमिति सूत्रान्तरे ।

याः पशूनामृषभे वाचस्ताः सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिण्यो यथाभागं वो अत्र शिवा नस्ता: पुनरायन्तु वाच इत्युद्यन्तमादित्यमुपतिष्ठते ।

नेक्षेतोद्यन्तमादित्यमित्यस्य निषेधशास्त्रस्यात्र बाधः । आदित्यग्रहणं रश्म्यरुण. व्यावृत्यर्थम् ।

उदित आदित्ये व्रतं कृणुतेति संप्रेष्यति ।

संप्रेषान्ते वाग्विसर्गः।

एवमस्तमिते ।

एवमित्यनेन व्रतं कृणुतेति प्रेषोऽतिदिश्यते वाग्विसर्गश्च ।

मध्यंदिने मध्यरात्रे च व्रतयति ।

प्रेधा विभक्तस्य पञ्चधा विभक्तस्य वा दिवसस्य मध्यमो मागो मध्यंदिनः । रात्रेस्त्रेधा विभक्तायाः पञ्चधा विभक्ताया वा मध्यमो भागो मध्यरात्रम् । सूर्यपरिवर्त. १३३