पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Krion १०५२ सत्यापाढविरचितं श्रौतसूत्रं- १०दशमप्र- होमदर्शपूर्णमासतद्विकारपशुपिण्डपितृयज्ञाग्रयणानामभ्यासपक्षे चातुर्मास्यानां च निषेधः । एवं क्षामवतीहिरण्यनारोष्टचादीनां चापि । यद्यपि दान निषिद्धं तथाऽपि वस्त्रालंकरणानुलेपनानि देयान्येव । रामायणादौ दर्शनात् । कन्यादानमपि भवतीति स्वने वक्ष्यते । पाकदानहोमादिनिषेधोऽयमवभूथपर्यन्तं, संध्योपास्तिस्तोत्रपाठादि तु भवत्येव । पाकदानहोमरूपस्थामावात् । संवत्सरसाध्यसत्रे सूतिकायां सत्यां पुंसवना- दषः संस्कारा उत्कृष्यैव कर्तव्याः । होमो पैतेषु न कर्तव्यः । सर्वलोपापेक्षयैकदेश- लोपस्योचितत्वात् । अत्र ययुक्तं तद्ग्राह्यं सुधीभिः । गर्मिणीपत्युरग्न्याधानादिनिषे. धस्तु षण्मासोत्तरमेव । तथा च दक्षो गर्भिणीपतिधर्मान्प्रकृत्य- मासषट्के व्यतीते तु न कुर्यान्मौञ्जिबन्धनम् । अग्न्याधानं गयाश्राद्धं वपनं च विवर्जयेत् ॥ इति । अग्न्याधानग्रहणं नित्यानां सोमादिकर्मणामुपलक्षणम् । तथा च गालवः- प्रव्यक्तगर्भापतिरब्धियानं मृतस्य वाहं क्षुरकर्म सङ्गम् । तथैव यत्नेन गयादितीर्थ यागादिक वास्तुविधि न कुर्यात् ॥ इति स्पष्टमेव यागनिषेधमा । यागोऽत्र सोमादिरेव । इसमपि व्यक्तमाह स्मृत्य- न्तरं गर्भिणीपतिधर्मान्प्रकृत्य- मासषट्के व्यतीते तु न कुर्यादनलाहितिम् । यागदीक्षां तीर्थयात्रां गयाश्राद्धं च वर्जयेत् ॥ इति । मासषट्के व्यतीते न कुर्यादित्युक्त्या मासपट्कमध्ये करणे न दोष इति । अत्र केचित्-मासोत्तरं योऽन्याधानादिनिषेधः स दोषातिशयार्थः । तेन तत्पूर्वमपि सति समवे निषेधपरिपालनमस्त्येवेत्याहुः ।

तदहर्दीक्षितो रात्रिं जागर्ति ।

यस्मिन्नति दीक्षितस्तस्मिन्नति रात्रि जागर्तीत्यर्थः ।

न व्रतं भवति ।

पयःपानरूपम् । अन्यत्स्पष्टम् ।

नक्षत्रं दृष्ट्वा तूष्णीमेव वाचं विसृजते ।

नक्षत्रमित्येकवचनं श्रुतौ बहुवचननवणेऽप्येकमपि दृष्टं चेत्तेनैव श्रुत्यर्थः सिद्धो मवतीति बोधयितुम् । व्रतं कृणुतेत्यस्य परप्रेषणार्थत्वं वाग्विप्तर्थित्वं चेत्युभयार्थ- त्वेऽपि तत्र परप्रेषणार्थत्वस्यास्मिन्नन्ययावेऽपि वाग्विसर्गस्य सत्त्वात्तदर्थे व्रतं कृणु- तेति प्राप्तेः शङ्कायां तद्वारणार्थ तृष्णामिति । कालार्थ एव संयोगो नाङ्गाङ्गिभाव इति भावः । तथा च जैमिनिः--तयोत्थानविसर्जने इति । एवकारो बौधायनोक्तव्याद्ध.